ऋग्वेदखिलानि · अध्याय 3.17
अविधवा.भव.वर्षाणि.शतम्.साग्रम्.तु.सुव्रता.।
तेजस्वी.च.यशस्वी.च.धर्म.पत्नी.पति.व्रता.।
जनयद्.बहु.पुत्राणि.मा.च.दुह्खम्.लभेत्.क्वचित्.।
भर्ता.ते.सोमपा.नित्यम्.भवेद्.धर्म.परायणः.।
अष्ट.पुत्रा.भव.त्वम्.च.सुभगा.च.पति.व्रता.।
भर्तुश्.चैव.पितुर्.भ्रातुर्.हृदय.आनन्दिनी.सदा.।
इन्द्रस्य.तु.यथा.इन्द्राणी.श्रीधरस्य.यथा.श्रिया.।
शंकरस्य.यथा.गौरी.तद्.भर्तुर्.अपि.भर्तरि.।
अत्रेर्.यथा.अनुसूया.स्याद्.वसिष्ठस्य.अप्य्.अरुन्धती.।
कौशिकस्य.यथा.सती.तथा.त्वम्.अपि.भर्तरि.॥
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0