ऋग्वेदखिलानि · अध्याय 2.10
आ.ते.गर्भो.योनिम्.एतु.पुमान्.बाण.इव.इषुधिम्.।
आ.वीरो.अत्र.जायताम्.पुत्रस्.ते.दश.मास्यः.।
करोमि.ते.प्राजापत्यम्.आ.गर्भो.योनिम्.एतु.ते.।
अनूनः.पूर्णो.जायताम्.अनन्धो.अश्रोणो.अपिशाच.धीतः.।.(.प्.81.).
पुमांस्.ते.पुत्रो.जायताम्.पुमान्.अनुजायताम्.।
यानि.भद्राणि.बीजान्य्.ऋषभा.जनयन्ति.नः.।
तानि.भद्राणि.बीजान्य्.ऋषभा.जनयन्तु.ते.।
तैस्.त्वम्.पुत्रम्.जनयेस्.स.जायताम्.वीरतमस्.स्वानाम्.।
यो.वशायाम्.गर्भो.यो.अपि.वेहति.इन्द्रस्.तन्.निदधे.वनस्पतौ.।
तैस्.त्वम्.पुत्रान्.विन्दस्व.सा.प्रसूर्.धेनुका.भव.।
सम्.वो.मनांसि.जानाताम्.सम्.नभिस्.सम्.ततो.असत्.।
सम्.त्वा.कामस्य.योक्त्रेण.युञ्जान्य्.अविमोचनाय.।
कामस्.समृध्यताम्.मह्यम्.अपराजितम्.एव.मे.।
यम्.कामम्.कामये.देव.तम्.मे.वायो.समर्धय.॥13.(.प्.82.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0