ऋग्वेदखिलानि · अध्याय 2.11
अग्निर्.एतु.प्रथमो.देवतानाम्.सो.स्याः.प्रजाम्.मुञ्चतु.मृत्यु.पाशात्.।
तद्.अयम्.राजा.वरुणो.अनुमन्यताम्.यथा.इयम्.स्त्री.पौत्रम्.अघन्.न.रोदीत्.।
इमाम्.अग्निस्.त्रायताम्.गार्हस्पत्यः.प्रजाम्.अस्यै.तिरतु.दीर्घम्.आयुः.।
अशून्य.उपस्था.जीवताम्.अस्तु.माता.पौत्रम्.आनन्दम्.अभि.विबुध्यताम्.इयम्.।
मा.ते.गृहे.निशि.घोर.उत्थाद्.अन्यत्र.त्वद्.रुदत्यस्.संविशन्तु.।
मा.त्वम्.विकेश्य्.उर.आवधिष्ठा.जीव.पुत्रा.पति.लोके.विराज.प्रजाम्.पश्यन्ती.सुमनस्यमाना.।
अप्रजस्यम्.पौत्र.मर्त्यम्.पाप्मानम्.उत.वा.अघम्.।
प्रजाम्.इव.उन्मुच्यस्व.द्विषद्भ्यः.प्रति.मुञ्चामि.पाशान्.।
देव.कृतम्.ब्राह्मणम्.कल्पमानम्.तेन.हन्मि.योनिषदः.पिशाचान्.।
क्रव्यादो.मृत्यून्.अधरान्.पातयामि.दीर्घम्.आयुस्.तव.जीवन्तु.पुत्राः.।
त्वम्.ह्य्.अग्ने.प्रथमो.मओता.॥14.(.प्.83.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0