ऋग्वेदखिलानि · अध्याय 2.9
संस्रवन्तु.मरुतस्.सम्.अश्वास्.उ.पूरुषाः.।
सम्.धान्यस्य.या.स्फातिस्.संस्राव्येण.हविषा.जुहोमि.।
आ.इह.यन्ति.पशवो.ये.परेयुर्.वायुर्.येषाम्.सहचाराम्.जुजोष.।
त्वष्टा.येषाम्.रूप.धेयानि.वेद.अस्मिंस्.ताम्.लोके.सविता.अभिरक्षतु.।
इमम्.गोष्ठम्.पशवस्.संस्रवन्तु.बृहस्पतिर्.आनयतु.प्रजानन्.।
सिनीवाली.नयत्य्.अग्र.एषाम्.आजग्मुषो.अनुमते.नियच्छ.।
संसिञ्चामि.गवाम्.क्षीरम्.सम्.आज्येन.बलम्.रसम्.।
संसिक्ता.अस्माकम्.वीरा.ध्रुवा.गावस्.सन्तु.गोपतौ.।
आहरामि.गवाम्.क्षीरम्.आहरामि.धान्यम्.रसम्.।
आहृता.अस्माकम्.वीरा.आ.पत्नीर्.इदम्.अस्तकम्.॥12
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0