ऋग्वेदखिलानि · अध्याय 2.1
मा.बिभेर्.न.मरिष्यसि.परि.त्वा.पामि.सर्वतः.।
घनेन.हन्मि.वृश्चिकम्.अहिम्.दण्डेन.आगतम्.।
त्वम्.अग्ने.द्युभिस्.त्वम्.आशुशुक्षणिः.॥1.(.प्.69.).
आदित्य.रथ.वेगेन.विष्णोर्.बाहु.बलेन.च.।
गरुड.पक्ष.निपातेन.भूमिम्.गच्छ.महा.यशाः.।
गरुडस्य.जात.मात्रेण.त्रयो.लोकाः.प्रकम्पिताः.।
प्रकम्पिता.मही.सर्वा.सशैल.वन.कानना.।
गगनम्.नष्ट.चन्द्र.अर्कम्.ज्योतिषम्.न.प्रकाशते.।
देवता.भय.भीताश्.च.मारुतो.न.प्लवायति.मारुतो.न.प्लवायत्य्.ओम्.नमः.।
भो.सर्प.भद्र.भद्रम्.ते.दूरम्.गच्छ.महा.यशाः.।
जनमेजयस्य.यज्ञ.अन्ते.आस्तीक.वचनम्.स्मर.।
आस्तीक.वचनम्.श्रुत्वा.यः.सर्पो.न.निवर्तते.।
शतधा.भिद्यते.मूर्ध्नि.शिंश.वृक्ष.फलम्.यथा.।
अगस्त्यो.माधवश्.चैव.मुचुकुन्दो.(.मुचुकुंदो.).महा.मुनिः.।
कपिलो.मुनिर्.आस्तीकः.पञ्च.एते.सुख.शायिनः.।
नर्मदायै.नमः.प्रातर्.नर्मदायै.नमो.निशि.।
नमो.अस्तु.नर्मदे.तुभ्यम्.त्राहि.माम्.विष.सर्पतः.।
यो.जरत्कारुणा.जातो.जरत्.कन्याम्.महा.यशाः.।
तस्य.सर्पो.अपि.भद्रम्.ते.दूरम्.गच्छ.महा.यशाः.।
तस्य.सर्पस्य.सर्पत्वम्.तस्मै.सर्प.नमो.अस्तु.ते.।.(.प्.70.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0