ऋग्वेदखिलानि · अध्याय 1.12
आश्विन.वहतम्.पीवरीस्.स्वधाश्वावतीर्.दास.पत्नीर्.ईरवतीः.।
युवोर्.दानासो.दिवि.न.आदितेयो.युवोः.पयांसि.रुरुचिरे.सुशुक्रा.।
यद्.रेभम्.दस्रा.विनिगूढम्.अप्सु.युवायन्तम्.वाजयन्तम्.ऋबीषात्.।
उन्निन्यथुर्.अश्विना.वध्रिम्.आशुम्.तद्.वाम्.व्रतम्.महयन्त्य्.उक्थ.शासः.।
या.वाम्.नु.शरीरे.या.पृथिव्याम्.या.वीरुत्सु.ग्रावसु.या.अन्तरिक्षे.।
या.वीरेषु.सूरिषु.या.अपि.नाके.ताभिर्.नश्.शर्म.यत्.शतम्.युवाना.।
यो.वाम्.भरित्रा.स्तुवतो.मघानि.प्रयन्त्रीणि.द्विषतो.बर्हणानि.।
त्रात्रीणि.शश्वताम्.सातपन्ति.ताभिर्.नश्.शर्म.यत्.शतम्.युवाना.॥17
यो.वाम्.त्रिचक्रस्.सुपविस्.सुशप्तिस्.त्रिवन्धुरः.केतुमान्.वात.रंहाः.।
योगे.यस्य.वितनोत्य्.अभीशुम्.विभावरीस्.सदथो.यन्.मयो.भू.।.(.प्.67.).
युवम्.ऊहथुर्.विमदाय.जायाम्.युवम्.वशाम्.शयवे.धेनुम्.अक्रताम्.।
युवम्.आयुषा.तारयतम्.प्र.बन्धनम्.अत्रिम्.अमुक्तम्.युवम्.अंहसो.वि.।
हवन्तम्.मेषान्.वृक्ये.शिवायै.पिता.चकार.ऋषिम्.अन्धम्.अश्विना.।
तस्मिन्न्.ऋज्र.अश्वे.चक्षुषी.अधत्तम्.आविष्.कृणुतम्.पुनर्.अस्य.लोकम्.।
यद्.वाम्.चक्षुर्.दिवि.यत्.सुपर्णो.येन.पश्यथो.भुवनान्य्.अमर्त्याः.।
तन्.मे.दत्तम्.चक्षुषी.देव.बन्धू.नमस्याम्.विन्देथ.पुरुधा.चकानाम्.।उपप्रयन्तो.अध्वरम्.॥18.(.प्.68.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0