भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 2.2

2.2.1

भद्रम्.वद.दक्षिणतो.भद्रम्.उत्तरतो.वद.।
भद्रम्.पुरस्तान्.नो.वद.भद्रम्.पश्चात्.कपिञ्जल.।

2.2.2

भद्रम्.वद.पुत्रैर्.भद्रम्.वद.गृहेषु.च.।
भद्रम्.अस्माकम्.वद.भद्रम्.नो.अभयम्.वद.।

2.2.3

भद्रम्.अधस्तान्.नो.वद.भद्रम्.उपरिष्टान्.नो.वद.।
भद्रम्.भद्रम्.न.आवद.भद्रम्.नस्.सर्वतो.वद.।

2.2.4

असपत्नम्.पुरस्तान्.नश्.शिवम्.दक्षिणतस्.कृधि.।
अभयम्.सततम्.पश्चाद्.भद्रम्.उत्तरतो.गृहे.।

2.2.5

यौवनानि.महयसि.जिग्युषाम्.इव.दुन्दुभिः.।
शकुन्तक.प्रकक्षिणम्.शत.पत्राभि.नो.वद.।
आवदंस्.त्वम्.शकुने.भद्रम्.आ.वद.॥2.(.प्.71.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc