भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 1.6

1.6.1

इमानि.वाम्.भाग.धेयानि.सिस्रत.इन्द्रा.वरुणा.प्र.महे.सुतेषु.वाम्.।
यज्ञे.यज्ञे.हि.सवना.भुरण्यथो.यत्.सुन्वते.यजमानाय.शिक्षथः.।

1.6.2

निष्षिध्वरीर्.ओषधीर्.आप.आभ्याम्.इन्द्रा.वरुणा.महिमानम्.आशत.।
या.तस्थतू.रजसस्.पारे.अध्वनो.ययोश्.शत्रुर्.नकिर्.आदेव.ओहते.।

1.6.3

सत्यम्.तद्.इन्द्रा.वरुणा.घृत.श्चुतम्.मध्व.ऊर्मिम्.दुहते.सप्त.वाणीः.।
ताभिर्.दाश्वांसम्.अवतम्.शुभस्पती.यो.गाम्.अदब्धो.अभिपाति.चित्तिभिः.।

1.6.4

घृत.प्रुषस्.सौम्या.जीर.धानवस्.सप्त.स्वसारस्.सदन.ऋतस्य.।.(.प्.61.).
या.ह.वाम्.इन्द्रा.वरुणा.घृत.श्चुता.ताभिर्.दक्षम्.यजमानाय.शिक्षतम्.।

1.6.5

अवोचाम.महते.सौभगाय.सत्यम्.त्वेशाभ्याम्.(.त्वा.इशाभ्याम्.).महिमानम्.इन्द्रियम्.।
अस्मान्.स्व्.इन्द्रा.वरुणा.घृत.श्चुता.त्रिभिस्.सप्तेभिर्.अवतम्.शुभस्पती.।

1.6.6

इन्द्रा.वरुणा.यद्.ऋषिभ्यो.मनीषा.वाचो.मतिम्.श्रुतम्.अधत्तम्.अग्रे.।
तानि.छन्दांस्य्.असृजन्त.धीरा.यज्ञम्.तन्वानास्.तपसा.आभ्य्.अपश्यन्.।

1.6.7

इन्द्रा.वरुणा.सौमनसम्.अदृप्तम्.रायस्.पोषम्.यजमानेषु.धत्तम्.।
प्रजाम्.पुष्टिम्.रयिम्.अस्मासु.धत्तम्.दीर्घ.आयुत्वाय.प्रतिरतम्.न.आयुः.॥10

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc