ऋग्वेदखिलानि · अध्याय 1.7
अयम्.सोमस्.सुशमी.अद्रि.बुध्नः.परिष्कृतो.मतिभिर्.उक्थ.शस्तः.।
गोभिश्.श्रीतो.मत्सरस्.साम.गीतो.मक्षू.पर्वाते.परि.वाम्.सुशिप्रा.।
अस्य.पाजसः.पिबतम्.सुतस्य.वारेष्ठाव्याः.परिपूतय.वृष्णः.।
ताव्.अश्विना.जठरम्.आपृणेथाम्.अथा.मनो.वसुधेयाय.धत्तम्.।.(.प्.62.).
आ.इह.यातम्.तन्वा.शाशदाना.मधूनि.नश्.चकमानो.नु.मेधा.।
वि.सुआ.(.वि.स्वा.).मन्द्रा.पुरु.रेजमाना.युवायती.हवते.वाम्.मनीषा.।
सुखम्.नासत्या.रथम्.अंशुमन्तम्.स्योनम्.सुवह्निम्.अधितिष्ठतम्.युवम्.।
यम्.वाम्.वहन्ति.हरितो.वहिष्ठा.शतम्.अश्वा.यदि.वा.सप्त.देवा.।
यम्.वेनन्.तागच्छतम्.मानवस्य.शार्यातस्य.सदनम्.शस्यमाना.।
अबीभयुस्.सधमादम्.चकानश्.च्यवनो.देवान्.युवयोस्.स.एषः.।
आ.नो.अश्विना.त्रिवृता.रथेन.अर्वाञ्चम्.रयिम्.वहतम्.सुवीरम्.।
सृण्वन्ता.वाम्.अवसे.जोहवीमि.वृधे.च.नो.भवतम्.वाज.सातौ.॥11
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0