ऋग्वेदखिलानि · अध्याय 1.5
कृशस्.त्वम्.भुवनस्.पते.पाति.देवानाम्.अद्भुतः.।
अश्विना.पातम्.अस्मयू.नासत्या.तिरो.अह्न्यम्.।
त्वम्.तम्.सुपर्ण.आ.भर.दिवस्.पुत्रा.निषेदिरे.।
अग्निः.प्रजानाम्.अभवज्.जातवेदो.विचर्षणे.।
अग्निर्.होता.विभू.वसुर्.देवानाम्.उत्तमम्.यशः.॥
पुनर्.अग्निः.प्रजापतिर्.वैश्वानरो.हिरण्ययः.।.(.प्.59.).
अग्निस्.त्राता.शिवो.भवद्.वरूथ्यो.विश्वदेव्योः.।
द्रविणम्.पाहि.विश्वातस्.सोमपा.अभयम्.करः.।
अग्ने.नि.जहि.मर्माण्य्.अरातीनाम्.च.मर्मणाम्.।
दीर्घ.आयुत्वस्य.हेशिषे.तस्य.नो.धेहि.सूर्य.।
उद्यन्तम्.त्वा.मित्रमह.आरोहन्तम्.विचक्षण.।
पश्येम.शरदश्.शतम्.जीवेम.शरदश्.शतम्.॥8
कृशम्.च्यवानम्.ऋषिम्.अन्धम्.अश्विना.जुजुर्वांसम्.कृणुथः.कर्वरेभिः.।
अक्षण्वन्तम्.स्थूल.वपुष्कम्.उग्रा.पुनर्.युवानम्.पतिम्.इत्.कनीनाम्.।
यो.वाम्.सोमैर्.हविषा.यो.घृतेन.वेदेन.यो.मनसा.वाश.शक्रा.।
स.धत्ते.रत्नम्.द्युमद्.इन्द्रवन्तम्.पुरु.स्पृहम्.पृतनाज्यम्.सुवीरम्.।
प्र.वाम्.नरा.सप्तवध्रिर्.मनीषा.गिरम्.हिन्वत्.प्रतिवाभ्याम्.इदानीम्.।
वृक्षा.समुद्धम्.उशना.युवानम्.अथ.तम्.कृणुत.मा.विरप्सिनम्.।
अजोहवीत्.सप्तवध्रिस्.सुहस्त.द्रुणि.बद्धो.अर्य.समानः.ककुद्मान्.।
अरूरुजतम्.युवम्.अस्य.वृक्षम्.अद्रिम्.न.वज्री.सुवृषायमानः.।
एका.कृशश्.चकमानम्.अना --- स् सुहवा.राति.सूरः.।
ब्रह्म.चक्रे.युवयोर्.वर्धनानि.धत्तम्.तस्मै.सदम्.अराति.दब्धिम्.॥9.(.प्.60.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0