भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 1.4

1.4.1

ज्योतिष्मन्तम्.केतुमन्तम्.त्रिचक्रम्.सुखम्.रथम्.सुषदम्.भूरि.मायम्.।
चित्रामघा.यस्य.योगे.धि.जज्ञे.तम्.वाम्.हुवे.अतिरिक्तम्.(.अति.रिक्तम्.).पिबध्यै.।

1.4.2

युवम्.देवा.क्रतुना.पूर्व्येण.युक्ता.रथेन.तविषम्.यजत्रा.।
आगच्छतम्.नासत्या.शचीभिर्.इदम्.तृतीयम्.शवनम्.पिबाथः.।

1.4.3

युवाम्.देवास्.त्रय.एकादशासस्.सत्या.सत्यस्य.दधिरे.पुरस्तात्.।
अस्माकम्.यज्ञम्.सवनम्.जुषाणा.पातम्.सोमम्.अश्विना.दीद्यग्नी.।

1.4.4

पनायम्.तद्.अश्विनाकृतम्.वाम्.वृषभो.दिवो.रजसः.पृथ्व्याः.।
सहस्रम्.शंसा.उत.ये.गविष्ठौ.सर्वाम्.इत्.ताम्.उप.यातम्.पिबध्यै.।

1.4.5

अयम्.वाम्.भागो.निहितो.यजत्रेमा.गिरो.नासत्य.उप.यातम्.।
पिबन्तम्.सोमम्.मधुमन्तम्.अश्विना.प्र.दाश्वांसम्.अवतम्.शचीभिह्॥6

1.4.6

ज्योतिष्मन्तम्.सुप्रतीकम्.अजस्रेण.भानुना.दीद्यग्नी.।
शिवम्.प्रजानाम्.कृणुष्व.मा.हिंसीः.पुरुषम्.जगत्.।

1.4.7

धाता.रातिस्.सविता.इदम्.जुषन्ताम्.त्वष्टा.यद्.दूतो.अभवद्.विवस्वतः.।
सम्.वाम्.अश्विभ्याम्.उषसा.सजूस्.तम्.ऊर्वम्.गव्यम्.महि.गृणान.इन्द्र.।

1.4.8

भरद्वाजस्य.सुन्वतो.यविष्ठा.याह्य्.अग्ने.मधुमत्तमस्.सुतः.।.(.प्.58.).
सोमस्य.मा.तवसो.दीध्याना.अच्छा.कोशम्.जनयित्वा.अवतो.भुवत्.।

1.4.9

अग्निः.पृथुर्.ब्रह्मणस्पतिस्.सोमो.देवेष्व्.आयमत्.।
इन्द्रस्य.आधिपत्य.मे.बृहस्पते.हवींसि.ते.।

1.4.10

रुचम्.ब्राह्म्यम्.जनयन्तो.देवा.अग्रे.यद्.अब्रुवन्.।
यस्.त्वा.इदम्.ब्राह्मणो.विद्यात्.तस्य.देवा.असन्.वशे.॥7

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc