ऋग्वेदखिलानि · अध्याय 1.3
प्र.धारा.यन्तु.मधुनो.घृतस्य.यद्.आविन्दतम्.सूरी.उस्रियायाम्.।
मित्रा.वरुणौ.भुवनस्य.कारू.ता.मे.अश्विना.जुषताम्.सवना.।
सुखम्.रथम्.शत.यावानम्.आशुम्.प्रातर्.यावानम्.सुषदम्.हिरण्ययम्.।
आतिष्ठद्.यत्र.दुहिता.विवस्वतस्.तम्.एव.अर्वाञ्चम्.अवसे.करामहे.।
ये.वाम्.अश्वासो.रथिरा.विपश्चितो.वात.ध्राजिषस्.सुयुजो.घृत.श्चुतः.।
येभिर्.यथा.उप.सूर्याम्.वरेयम्.तेभिर्.नो.दस्रा.वर्धतम्.समत्सु.।
यद्.वाम्.रेतो.अश्विना.पोषयित्नु.यद्.रासभो.वध्रिमत्यैस्.सुदानू.।
यस्माज्.जज्ञे.देव.कामस्.सुदक्षस्.तद्.अस्यै.दत्तम्.भिषजाव्.अभिद्यु.।
यन्.नासत्या.भेषजम्.चित्र.भानू.येन.अवथुस्.तोक.कामाम्.उ.नु.घोषाम्.।
तद्.अस्यै.दत्तम्.त्रिषु.पुंसु.वध्वै.येन.आविन्दतु.नयम्.सा.सुहस्त्यम्.।
वषड्.वाम्.दस्राव्.अस्मिन्.सुते.नासत्या.होता.कृणोतु.वेधाः.।
सिस्रतान्.नार्य्.ऋत.प्रजाता.वि.पर्वाणि.जिहताम्.सूतवा.उ.।
एवा.निषच्.च.उपनिषच्.च.विप्रा.युवाम्.रेभत्यौ.सयुजा.सुपर्ण्यौ.।
ब्रह्माण्य.क्रतुर्.विदथेषु.शक्रा.धत्तम्.तयोस्.तनयन्.तोकम्.अग्र्यम्.॥5.(.प्.57.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0