ऋग्वेदखिलानि · अध्याय 1.2
शश्वन्.नासत्या.युवयोर्.महित्वम्.गावो.अर्चन्ति.सदम्.इत्.पुरुक्षू.।
यद्.ऊहथुर्.अश्विना.भुज्युम्.अस्तम्.अनारम्भणे.अध्वनि.तौग्र्यम्.अस्तम्.।
यद्.अश्वम्.श्वेतम्.दधतो.अभिघ्नन्.नासत्या.भुज्यू.सुमताय.पेरवे.।
तम्.व्याम्.रतिम्.विदथेषु.विप्रा.रेभन्तो.दस्राव्.अगमन्.मनस्युम्.।
आ.नो.विपन्यू.सवनम्.जुषेथाम्.आ.वाम्.हंसास्.सुयुजो.वहन्तु.।
युवाम्.स्तोमासो.जनयो.न.मर्या.उशन्तो.दस्रा.वृषणा.सचन्ते.।.(.प्.54.).
आ.नो.यातम्.तृवृता.(.त्रिवृता.).सोम.पेयम्.रथेन.द्युक्षा.सवनम्.मदाय.।
स्तीर्णम्.वाम्.बह्रिस्.सुषुता.मधूनि.युक्ता.होतारो.रथिनास्.सुहस्ताः.।
वासात्यौ.चित्रौ.जगतो.निधानौ.द्यावा.भूमी.शृणुतम्.रोदसी.मे.।
ताव्.अश्विना.रासभ.अश्वा.हवम्.मे.शुभस्पती.आगतम्.सूर्यया.सह.।2
पेर्षस्.सन्तु.मधुनो.घृतस्य.तीव्रम्.सोमम्.हि.वपन्तु.शुष्मिणः.।
एवम्.तथा.युवत्य्.अश्विनौ.बाहू.ऊर्जम्.दुहतु.मधुना.घृतेन.।
अग्ने.मदन्तु.यातयस्.स्तोमाः.प्र.णु.त्यम्.दिवम्.यान्ति.घर्मम्.।
चतुर्दशम्.त्रिदिवम्.युवानम्.ओजो.मिमातु.द्रविणम्.सुमेके.।
हरिम्.हिनोमि.दयमानो.अंशु.पुरु.मीढ.ऋषभम्.जयान्.।
हर्यश्वम्.हरितस्.सप्त.अश्वम्.युक्ता.नेमिम्.त्रिनाभिम्.वरुणम्.प्रगाथस्.स्वस्तये.।
सोमो.वैष्णवम्.महिमानम्.ओजस्.सप्त.ऋषयस्.सुवीरा.नराः.प्रीणयन्ति.।
सौधन्वनासस्.सुहस्तास्.शमीभिस्.त्वष्टम्.आङ्गिरसम्.ऋभवम्.स्वस्तये.।
इहैह.(.इह.एह.).वो.मघवन्.निदधामि.ध्रुवम्.तीव्रम्.च.तम्.हृदियन्तम्.बृहस्पतिम्.।
सते.दधामि.द्रविणम्.हविष्मते.घर्मश्.चित्.तप्तः.प्रवृजे.वहन्ति.।3
शश्वत्.सौपर्णौ.विषित.स्तुकम्.वायसम्.विश्व.भुजः.पथिरक्षी.नृ.चक्षसौ.।
इयम्.हित्वा.दयमानम्.पृचद्भिर्.माम्.वायसो.दोषाद्.दयमानो.अबुबुधत्.।
तम्.एक.नेमिम्.त्रिवृतम्.षोडश.अरम्.शत.आवारम्.विंशति.प्रत्यराभिः.।
अष्टकैष्.षड्भिर्.विश्व.रूप.एक.पाशम्.त्रिमार्ग.भेदम्.द्वि.निमित्त.एक.मोहम्.।
सदम्.सदम्.एकमकम्.तस्थुषः.पञ्च.त्रिंशाद्.दश.परम्.।
त्रिंशतम्.शिवम्.नव.गुह्यम्.यज्ञम्.अष्ट.षष्ठम्.विदत्.।
अतिष्ठद्.वज्रम्.वृषणम्.सुवीरम्.दधन्वम्.देवाम्.हरिम्.इन्द्र.केशम्.।
आयम्.इन्द्रष्.षोडशी.शर्म.यच्छन्तु.षड्.वर्मिणम्.एकम्.ध्रुवन्.ति.साकम्.॥4.(.प्.55.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0