भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 1.11

1.11.1

इदम्.देवा.भाग.धेयम्.पुराणम्.यद्.आशिरे.हृषिता.यज्ञियासः.।
एषस्य.घर्मः.परिपूत.ऋग्भिस्.तम्.बप्सथो.रथिरा.विद्रवन्ता.।

1.11.2

वृक्णम्.शिरो.वृषणा.यन्.मखस्य.शिरो.भिषजा.समधत्तम्.अर्वाक्.।
तद्.वाम्.नरस्.सरीरम्.चारु.चित्रम्.सदा.गृणन्ति.कवयस्.सुतेषु.।

1.11.3

येन.देवा.अघ्नत.सम्.रपांसि.येन.असहन्त.पृतना.अदेवीः.।
येन.अभवन्न्.अमृतास्.सोमधानन्.तम्.अर्पयतम्.शिरसा.हयस्य.।

1.11.4

पुरा.विशीर्णा.विदथेन.देवा.नावशिषो.अरुन्धत.न.अपि.नाकम्.।
ईजाना.बह्वीर्.उ.समा.यदा.अस्य.शिरो.दत्तम्.समधान्वारुहन्.स्वः.॥15

1.11.5

यद्.वाम्.माता.उप.आतिष्ठद्.उग्रम्.सुवृद्रथान्.अव्यथेयम्.सरण्यूः.।
तत्र.वाम्.माध्वी.मध्वा.आहितम्.सुनीथम्.प्रत्नम्.अश्विना.मयो.भु.।

1.11.6

युवम्.स्त्रिभिश्.चितयथो.अपि.नाकम्.युवम्.पयांसि.शक्वरीषु.धत्तम्.।
युवम्.वीरुद्भिस्.सृजतम्.महीमम्.युवम्.सर्तवे.सृजतम्.वि.सिन्धून्.।

1.11.7

युवम्.माध्वी.मधुभिस्.सारघेभिर्.युवम्.भेषजा.स्थो.भिषजा.सुपाणी.।
युवम्.रथेभी.रथिरै.स्थ.उग्रा.सुमङ्गलाव्.अमीव.चातनेभिः.।

1.11.8

तन्.मे.दत्तम्.चक्षुर्.अक्ष्णोर्.विचक्षे.पश्यामो.येन.स्वर्.इमा.दिशश्.च.।
येन.अभिख्याय.विधवाम.शक्रम्.दुर्हणाद्.वाम्.अश्विना.शूर.सातौ.॥16.(.प्.66.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc