ऋग्वेदखिलानि · अध्याय 1.10
अयम्.सोमो.देवया.वाम्.सुमेधा.हृदिस्पृग्.याति.धिषणाम्.मियानः.।
स्वाधिष्ठो.हव्यान्.मधुनो.घृताद्.वा.नूत्नो.वाम्.स्तोमो.अश्विना.अहम्.एमि.।
प्र.वाम्.मही.मन्दते.देव.कामा.ययैर्.अयासो.वयुनानि.विश्वा.।
ताव्.आश्विना.पुरु.भुजा.सुशस्ती.ऋषि.हिता.मन्हतम्.विश्वधेनाम्.।
यो.वाम्.गोमान्.अश्ववान्.सूनृतावान्.पुरुश्चन्द्र.स्पार्हाणि.स्पार्हयिष्णुः.।
यम्.जोहवीमि.रथिरो.गविष्ठौ.तम्.अह्वे.रथम्.आ.विश्व.रूपम्.।
सुवृद्.रथो.वाम्.वृषणा.सुवह्निः.पुरु.स्पृहो.वसुविद्.यो.वयोधाः.।
येन.वाजान्.वहतम्.स्पार्हवीरान्.उरु.श्रियश्.शुरुधोश्वांश्.च.(.शुरुध.ऊश्वांश्.च.).माध्वी.॥14.(.प्.65.).
मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0