भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदखिलानि · अध्याय 1.9

1.9.1

यम्.गच्छतस्.सुतपा.देववन्तम्.हविष्.कृतम्.वृषणा.रात.हव्यम्.।
स.पुष्यत्य्.अन्नम्.शतम्.आविर्.उक्थ्य.मना.पिबन्.प्रयतम्.आदयित्नु.।

1.9.2

य.दांसांसि.जरिता.दुष्टरा.वाम्.या.शंसन्ति.जरिताअस्.सुतेषु.।
यानि.इह.पुष्यन्तु.विधा.जनेषु.येर्.अश्नथो.विदथे.सोम.पेयम्.।

1.9.3

यद्.उशन्ता.वृषणा.या.दधीचे.शिरो.भिषजा.समधत्तम्.अर्वाक्.।
तद्.वाम्.मती.मधुना.तम्.युवाना.वषत्.कृतम्.भसथो.मन्दसाना.।

1.9.4

मा.वोच.आथर्वण.यद्.ब्रवीमि.मधु.ते.अन्यैर्.वीरतरैर्.अचित्तम्.।
यद्.अन्व्.अशासन्.मघवा.दधीचम्.तद्.वाम्.अवक्षत्.शिरसा.हयस्य.।

1.9.5

यद्.आगच्छाद्.वीडितो.वज्र.बाहुर्.धत्ते.पितृभ्या.मधु.नो.दधीचा.।
आतिरेयम्.दुश्शुते.मा.वदेति.यदा.वदत्.सा.युवयोस्.सुकीर्तिः.।

1.9.6

याभिश्.शचीभिर्.वृषणा.दधीचम्.याभिस्.तुरम्.कावशेयम्.मखस्य.।
याभिर्.धियम्.जिन्वथाके.निपाना.ताभिर्.नो.अवतम्.विदथे.गभीरा.॥13.(.प्.64.).

मूल पाठ: Ṛgvedakhilāni · Edition: J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc