भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 96

96.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमो ऽध्यायः ॥
र्क्व् अध्याय 96
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् ।
ऋषिकोटिः समायाता यत्र वै कुरुनन्दन

96.2

कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः ।
मन्त्रयित्वा द्विजैः सर्वैर् वेदमङ्गलपाठकैः

96.3

स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् ।
संसारच्छेदकरणं प्राणिनामार्तिनाशनम्

96.4

कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन ।
स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम

96.5

पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि ।
श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर

96.6

पित्ःणाम् अक्षया तृप्तिर्यावदाभूतसम्प्लवम् ।
पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् ।
मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc