भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 56

56.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥
र्क्व् अध्याय 56
उत्तानपाद उवाच:
अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता ।
रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता

56.2

पुण्या देवाशिला नाम तस्या माहात्म्यम् उत्तमम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर

56.3

ईश्वर उवाच:
शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।
देवैः सर्वैर्महाभागा सर्वलोकहिताय वै

56.4

अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते ।
गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर

56.5

तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः ।
अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम्

56.6

जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले ।
भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि

56.7

तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् ।
ततो देवनदी जाता सा हिताय नृणां भुवि

56.8

वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः ।
पिबन्ति च जलं नित्यं न ते यान्ति यमालयम्

56.9

यत्र सा पतिता कुण्डे शूलभेदे नराधिप ।
देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती

56.10

याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् ।
तत्र देवशिला पुण्या स्वयं देवेन निर्मिता

56.11

तत्र स्नात्वा तु यो भक्त्या तर्पयेत् पितृदेवताः ।
पितरस्तस्य तृप्यन्ति यावद् आभूतसम्प्लवम्

56.12

तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप ।
स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते

56.13

उत्तानपाद उवाच:
कानि दानानि दत्तानि शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः

56.14

देवशिलाया माहात्म्यं स्नानदानादिजं फलम् ।
व्रतोपवासनियमैर् यत्प्राप्यं तद्वदस्व मे

56.15

ईश्वर उवाच:
आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ।
वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप

56.16

राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर् न च तस्कराः ।
न चाधर्मो ऽभवत् तत्र धर्म एव हि सर्वदा

56.17

सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ।
एकासीद् दुहिता तस्य सुरूपा गिरिजा यथा

56.18

इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च ।
कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि

56.19

अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः ।
ततस्तस्यास्तु यो भर्ता स मृत्युवशम् आगतः

56.20

विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ।
उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम्

56.21

प्रिये दुःखम् इदं जातं यावज्जीवं सुदुःसहम् ।
नैषा रक्षयितुं शक्या रूपयौवनगर्विता

56.22

दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका ।
नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे ।
परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत्

56.23

भानुमत्युवाच:
न लज्जामि तवाग्रे ऽहं जल्पन्ती तात कर्हिचित् ।
सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप

56.24

अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् ।
स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे

56.25

करिष्यामि व्रतान्याशु पुराणविहितानि च ।
आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम्

56.26

ममैषा वर्तते बुद्धिर् यदि त्वं तात मन्यसे ।
भानुमत्या वचः श्रुत्वा राजा संहर्षितो ऽभवत्

56.27

तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् ।
विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे

56.28

पुरुषान् सायुधांश् चापि ब्राह्मणान्सपुरोहितान् ।
दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान्

56.29

ततः पितुर्मतेनैव गङ्गातीरं गता सती ।
अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप

56.30

नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः ।
द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता

56.31

त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् ।
प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी

56.32

समाः पञ्च स्थिता तत्र ओङ्कारे ऽमरकण्टके ।
उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा

56.33

स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वम् अतन्द्रिता ।
वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे

56.34

ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् ।
दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदम् अब्रवीत्

56.35

माहात्म्यम् अस्य तीर्थस्य नाम चैवास्य कीदृशम् ।
कथयन्तु महाभागाः प्रसादः क्रियतां मम

56.36

ऋषय ऊचुः ।
चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।
महेश्वरेण तुष्टेन देवदेवेन शूलिना

56.37

अत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
अनिवर्तिका गतिस् तस्य जायते नात्र संशयः

56.38

द्वितीये ऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि ।
पूर्वोक्तेन विधानेन स्नानं कुर्याद् यथाविधि

56.39

जन्मत्रयकृतैः पापैर् मुच्यते नात्र संशयः ।
जलेन तिलमात्रेण प्रदद्याद् अञ्जलित्रयम्

56.40

तृप्यन्ति पितरस्तस्य द्वादशाब्दान्य् असंशयम् ।
यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर् ब्राह्मणैर् नृप

56.41

वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तम् अक्षयम् ।
अपरे ऽह्णि ततो गच्छेत् पुण्यां देवशिलां शुभाम्

56.42

वीक्ष्यते जाह्नवी पुण्या देवैर् उत्पादिता पुरा ।
स्नात्वा तत्र जलं दद्यात् तिलमिश्रं नराधिप

56.43

सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया ।
एकादश्याम् उपोषित्वा पक्षयोर् उभयोर् अपि

56.44

क्षपाजागरणं कुर्यात् पठेत्पौराणिकीं कथाम् ।
विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः

56.45

प्रभाते भोजयेद् विप्रान् दानं दद्यात् सशक्तितः ।
चतुर्थे ऽह्नि ततो गच्छेद् यत्र प्राची सरस्वती

56.46

ब्रह्मदेहाद् विनिष्क्रान्ता पावनार्थं शरीरिणाम् ।
तत्र स्नात्वा नरो भक्त्या तर्पयेत् पितृदेवताः

56.47

श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद् द्विजान् ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम्

56.48

सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा ।
देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम्

56.49

त्रिरात्रं कुरुते यो ऽत्र शुचिः स्नात्वा जितेन्द्रियः ।
पक्षं मासं च षण्मासमब्दमेकं कदाचन

56.50

न तस्य सम्भवो मर्त्ये तस्य वासो भवेद् दिवि ।
नियमस्थो विमुच्येत त्रिजन्मजनितादघात्

56.51

विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता ।
तिष्ठते साक्षयं कालं रुद्रलोके महीयते

56.52

मुनीनां वचनं श्रुत्वा मुदा परमया ययौ ।
ततो ऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता

56.53

दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् ।
श्रूयतां वचनं मे ऽद्य ब्राह्मणाः सपुरोहिताः

56.54

न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् ।
मत्पितुश्च तथा मातुः कथयध्वम् इदं वचः

56.55

त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी ।
एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः

56.56

एकान्तरोपवासस्था शनैर्मासोपवासिता ।
देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम्

56.57

अहर्निशं दहेद् धूपं चन्दनं च सदीपकम् ।
पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् ।
द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता

56.58

ईश्वर उवाच:
अन्यद् देवशिलायास्तु माहात्म्यं शृणु भूपते ।
कथयामि महाबाहो सेतिहासं पुरातनम्

56.59

कश्चिद् वनेचरो व्याधः शबरः सह भार्यया ।
दुर्भिक्षपीडितस् तत्र आमिषार्थं वनं गतः

56.60

नापश्यत् पक्षिणस् तत्र न मृगान्न फलानि च ।
सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम्

56.61

दृष्ट्वा सरोवरं तत्र शबरी वाक्यम् अब्रवीत् ।
कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये

56.62

देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः ।
विक्रयो भविता तत्र धर्मशीलो जनो यतः

56.63

भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः ।
उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः

56.64

श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः ।
शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान्

56.65

चैत्रमासे सिते पक्षे एकादश्यां नराधिप ।
तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः

56.66

मण्डपं ददृशे तत्र कृतं देवशिलोपरि ।
वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम्

56.67

ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः ।
सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः

56.68

देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले ।
आगच्छद्भिर् नृपश्रेष्ठ मार्गस्तत्र न लभ्यते

56.69

दृष्ट्वा जनपदं तत्र तां भार्यां शबरो ऽब्रवीत् ।
गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम्

56.70

पर्वाणि यानि श्रूयन्ते किंस्वित् सूर्येन्दुसम्प्लवः ।
अयनं किं भवेदद्य किं वाक्षयतृतीयका

56.71

ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा ।
पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे

56.72

तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे ।
किमयं स्नाति लोको ऽयं किं वा स्नानस्य कारणम्

56.73

नार्युवाच:
अद्य चैकादशी पुण्या सर्वपापक्षयंकरी ।
उपोषिता सकृद्येन नाकप्राप्तिं करोति सा

56.74

तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै ।
कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम

56.75

अद्य त्वेकादशी पुण्या बालवृद्धैर् उपोषिता ।
मदनैकादशी नाम सर्वपापक्षयंकरी

56.76

नियता श्रूयते तत्र राजपुत्री सुशोभना ।
व्रतस्था नियताहारा नाम्ना भानुमती सती

56.77

नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता ।
दृश्यते सा वरारोहा ह्यवतीर्णा महीतले

56.78

भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह ।
कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम्

56.79

ममैषा वर्तते बुद्धिर् न भोक्तव्यं मया ध्रुवम् ।
न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित्

56.80

शबर्युवाच:
न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे ।
भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम्

56.81

भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ।
अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः

56.82

सर्वान् देवान् नमस्कृत्य गतो देवशिलां प्रति ।
तस्थौ स शङ्कमानो ऽपि नमस्कृत्य जनार्दनम्

56.83

यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् ।
तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत् तदा

56.84

कुत्र पद्मद्वयं लब्धं कथ्यताम् अग्रतो मम ।
शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान्

56.85

धान्येन वसुना वापि कमलानि समानय ।
भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति

56.86

श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे

56.87

शबर्य् उवाच:
श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः ।
न लोभो न स्पृहा मे ऽस्ति गत्वा राज्ञीं निवेदय

56.88

तया च सत्वरं गत्वा यथावृत्तं निवेदितम् ।
शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः

56.89

तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता ।
उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः

56.90

शबर्युवाच:
न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।
श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम्

56.91

अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ

56.92

राज्ञ्युवाच:
विना मूल्यं न गृह्णामि कमलानि तवाधुना ।
धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम्

56.93

दश विंशत्यथ त्रिंशच् चत्वारिंशद् अथापि वा ।
गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर

56.94

वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् ।
तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः

56.95

शबर्युवाच:
नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ।
देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते

56.96

राज्ञ्युवाच:
न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ।
तस्मात् सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम्

56.97

तपस्विनो महाभागा ये चारण्यनिवासिनः ।
गृहस्थद्वारि ते सर्वे याचन्ते ऽन्नम् अतन्द्रिताः

56.98

शबर्युवाच:
निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् ।
सत्येन तपते सूर्यः सत्येन ज्वलते ऽनलः

56.99

सत्येन तिष्ठत्य् उदधिर्वायुः सत्येन वाति हि ।
सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च

56.100

सत्याधारम् इदं सर्वं जगत् स्थावरजङ्गमम् ।
तस्मात् सर्वप्रयत्नेन सत्यं सत्येन पालयेत्

56.101

देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते ।
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः

56.102

श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् ।
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि ।
मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च

56.103

राज्ञ्युवाच:
आरामोपहृतं पुष्पमारण्यं पुष्पमेव च ।
क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम्

56.104

उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च ।
मध्यमं फलमारामे त्वधमं क्रीतमेव च ।
प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः

56.105

पुरोहित उवाच:
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ।
उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित्

56.106

ईश्वर उवाच:
श्रीफलानि सपद्मानि दत्तानि शबरेण तु ।
गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम्

56.107

क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् ।
शबरस्तु ततो भार्याम् इदं वचनम् अब्रवीत्

56.108

दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ।
कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम्

56.109

चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् ।
ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम्

56.110

स्नाति वै शूलभेदे तु देवनद्यां तथापरे ।
सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदे ऽपरे

56.111

चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः ।
शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि

56.112

श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा ।
तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः

56.113

भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् ।
अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः

56.114

हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा ।
पायसेन तु गव्येन कृतान्नेन विशेषतः

56.115

भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि ।
पादुकोपानहौ छत्रं शय्यां गोवृषमेव च

56.116

विविधानि च दानानि हेमरत्नधनानि च ।
चक्रतीर्थे महाराज कपिलां यः प्रयच्छति ।
पृथ्वी तेन भवेद् दत्ता सशैलवनकानना

56.117

उत्तानपाद उवाच:
यानि यानि च दत्तानि शस्तानि जगतीपतेः ।
तानि सर्वाणि देवेश कथयस्व प्रसादतः

56.118

ईश्वर उवाच:
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमिदः स्वर्गमाप्नोति दीर्घम् आयुर् हिरण्यदः

56.119

गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् ।
वासोदश्चन्द्रसालोक्यम् अर्कसायुज्यम् अश्वदः

56.120

वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् ।
यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः

56.121

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।
वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम्

56.122

सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
येन येन हि भावेन यद्यद्दानं प्रयच्छति

56.123

तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् ।
दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च

56.124

उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर ।
पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः

56.125

श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् ।
पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः

56.126

शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् ।
संसारसागराद्भीतः सत्यं भद्रे वदामि ते

56.127

अनेकानि च पापानि कृतानि बहुशो मया ।
घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा

56.128

तेन पापेन दग्धो ऽहं दारिद्र्यं न निवर्तते ।
तीर्थावगाहनं पूर्वं पापेन न कृतं मया

56.129

तेनाहं दुःखितो भद्रे दारिद्र्यम् अनिवर्तिकम् ।
मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि ।
नगशृङ्गं समारुह्य मोक्तुम् इच्छाम्यहं तनुम्

56.130

शबर्युवाच:
मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः ।
या गतिस्तव जीवेश सा ममापि भविष्यति

56.131

न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् ।
श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा

56.132

पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति ।
यत्ते ऽभिवाञ्छितं किंचिद् विष्णवे कर्तुम् अर्हसि

56.133

भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः ।
गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि

56.134

सर्वदेवान्नमस्कृत्य भुक्तो ऽपि च तया सह ।
चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc