रेवाखाण्ड (संशोधित पाठ) · अध्याय 27
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशो ऽध्यायः ॥
र्क्व् अध्याय 27
श्रीमार्कण्डेय उवाच:
नारदस्य वचः श्रुत्वा राज्ञी वचनम् अब्रवीत् ।
प्रसादं कुरु विप्रेन्द्र गृह्ण दानं यथेप्सितम्
सुवर्णमणिरत्नानि वस्त्राणि विविधानि च ।
तत्ते दारयामि विप्रेन्द्र यच्चान्यद् अपि दुर्लभम्
राज्ञ्यास्तु वचनं श्रुत्वा नारदो वाक्यम् अब्रवीत् ।
अन्येषां दीयतां भद्रे ये द्विजाः क्षीणवृत्तयः
वयं तु सर्वसम्पन्ना भक्तिग्राह्याः सदैव हि ।
इत्युक्ता सा तदा राज्ञी वेदवेदाङ्गपारगान्
आहूय ब्राह्मणान् निःस्वान्दातुं समुपचक्रमे ।
यत् किंचिन्नारदेनोक्तं दानसौभाग्यवर्धनम्
तेन दानेन मे नित्यं प्रीयेतां हरिशङ्करौ ।
ततो राज्ञी च सा प्राह नारदं मुनिपुंगवम्
राज्ञ्युवाच:
दानं दत्तं त्वयोक्तं यद्भर्तृकर्मपरं हि तत् ।
आजन्मजन्म मे भर्ता भवेद्बाणो द्विजोत्तम
नान्यो हि दैवतं तात मुक्त्वा बाणं द्विजोत्तम ।
तेन सत्येन मे भर्ता जीवेच्च शरदां शतम्
नान्यो धर्मो भवेत् स्त्रीणां दैवतं हि पतिर्यथा ।
तथापि तव वाक्येन दानं दत्तं यथाविधि
स्वकं कर्म करिष्यामो भर्तारं प्रति मानद ।
ब्रह्मर्षे गच्छ चेदानीं त्वमाशीर्वादः प्रदीयताम्
तथेति तामनुज्ञाप्य नारदो नृपसत्तम ।
सर्वासां मानसं हृत्वा अन्यतः कृतमानसः
जगामादर्शनं विप्रः पूज्यमानस्तु खेचरैः ।
ततो गतमनस्कास्ता भर्तारं प्रति भारत
विवर्णा निष्प्रभा जाता नारदेन विमोहिताः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0