भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 229

229.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं नामाष्टविंशत्यधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 229
श्रीमार्कण्डेय उवाच:
एवं ते कथितं राजन्पुराणं धर्मसंहितम् ।
शिवप्रीत्या यथा प्रोक्तं वायुना देवसंसदि

229.2

षष्टितीर्थसहस्राणि षष्टिकोटिस्तथैव च ।
आदिमध्यावसानेषु नर्मदायां पदे पदे

229.3

मया द्वादशसाहस्री संहिता या श्रुता पुरा ।
देवदेवस्य गदतः साम्प्रतं कथिता तव

229.4

पृष्टस्त्वयाहं भूपाल पर्वते ऽमरकण्टके ।
स्थितः संक्षेपतः सर्वं मया तत्कथितं तव

229.5

नर्मदाचरितं पुण्यं शृणु तस्यास्ति यत्फलम् ।
यत्फलं सर्ववेदैः स्यात् सषडङ्गपदक्रमैः

229.6

पठितैश्च श्रुतैर् वापि तस्माद् बहुतरं भवेत् ।
सत्रयाजी फलं यत्र लभते द्वादशाब्दिकम्

229.7

चरिते तु श्रुते देव्या लभते तादृशं फलम् ।
सर्वतीर्थेषु यत्पुण्यं स्नात्वा सागरमादितः

229.8

सकृत्स्नात्वा तथा श्रुत्वा नर्मदायां फलं हि तत् ।
आदिमध्यावसानेन नर्मदाचरितं शुभम्

229.9

यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ।
स प्राप्य शिवसंस्थानं रुद्रकन्यासमावृतः

229.10

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।
एतद् धर्ममुपाख्यानं सर्वशास्त्रेषु सत्तमम्

229.11

देशे वा मण्डले वापि वा ग्रामे नगरे ऽपि वा ।
गृहे वा तिष्ठते यस्य चातुर्वर्ण्यस्य भारत

229.12

स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ।
त्रिविधं कारणं लोके धर्मपन्थानमुत्तमम्

229.13

देवतानां गुरुं शास्त्रं परमं सिद्धिकारणम् ।
श्रुत्वेश्वरमुखात्पार्थ मयापि तव कीर्तितम्

229.14

दक्षिणे चोत्तरे कूले यानि तीर्थानि कानिचित् ।
प्रधानतः सुपुण्यानि कथितानि विशेषतः

229.15

स्पर्शनाद् दर्शनात् तेषां कीर्तनाच्छ्रवणात् तथा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति

229.16

इदं यः शृणुयान् नित्यं पुराणं शिवभाषितम् ।
ब्राह्मणो वेदविद्यावान् क्षत्रियो विजयी भवेत्

229.17

धनभागी भवेद् वैश्यः शूद्रो वै धर्मभाग्भवेत् ।
सौभाग्यं सन्ततिं स्वर्गं नारी श्रुत्वाप्नुयाद्धनम्

229.18

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
माहात्म्यं नर्मदायास्तु श्रुत्वा पापबहिष्कृताः

229.19

पापभेदी कृतघ्नश्च स्वामिविश्वासघातकः ।
गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः

229.20

एते श्रुत्वैव पापेभ्यो मुच्यन्ते नात्र संशयः ।
ये पुनर्भावितात्मानः शृण्वन्ति सततं नृप

229.21

पूजयन्त इदं देवाः पूजिता गुरवश्च तैः ।
नर्मदा पूजिता तेन भगवांश्च महेश्वरः

229.22

तस्मात्सर्वप्रयत्नेन गन्धपुष्पविभूषणैः ।
पूजितं परया भक्त्या शास्त्रमेतत्फलप्रदम्

229.23

लेखापयित्वा सकलं नर्मदाचरितं शुभम् ।
उत्तमं सर्वशास्त्रेभ्यो यो ददाति द्विजन्मने

229.24

नर्मदासर्वतीर्थेषु स्नाने दाने च यत्फलम् ।
तत्फलं समवाप्नोति स नरो नात्र संशयः

229.25

एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।
स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्तिवर्धनम्

229.26

सर्वपापहरं पार्थ दुःखदुःस्वप्ननाशनम् ।
पठतां शृण्वतां राजन् सर्वकामार्थसिद्धिदम्

229.27

शान्तिरस्तु शिवं चास्तु लोकाः सन्तु निरामयाः ।
गोब्राह्मणेभ्यः स्वस्त्यस्तु धर्मं धर्मात्मजाश्रयः

229.28

नरकान्तकरी रेवा सतीर्था विश्वपावनी ।
नर्मदा धर्मदा चास्तु शर्मदा पार्थ ते सदा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc