भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 22

22.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशो ऽध्यायः ॥
र्क्व् अध्याय 22
श्री मार्कण्डेय उवाच:
अतः परं प्रवक्ष्यामि सा विशल्या ह्यभूद्यथा ।
आश्चर्यभूता लोकस्य सर्वपापक्षयंकरी

22.2

ब्रह्मणो मानसः पुत्रो मुख्यो ह्यग्निरजायत ।
मुख्यो वह्निरितिप्रोक्त ऋषिः परमधार्मिकः

22.3

तस्य स्वाहाभवत्पत्नी स्मृता दाक्षायणी तु सा ।
तस्यां मुख्या महाराज त्रयः पुत्रास्तदा ऽभवन्

22.4

अग्निराहवनीयस्तु दक्षिणाग्निस्तथैव च ।
गार्हपत्यस्तृतीयस्तु त्रैलोक्यं यैश्च धार्यते

22.5

तथा वै गार्हपत्यो ऽग्निर्जज्ञे पुत्रद्वयं शुभम् ।
पद्मकः शङ्कुनामा च तावुभावग्निसत्तमौ

22.6

वसन्नग्निर्नदीतीरे समाश्रित्य महत्तपः ।
रुद्रमाराधयामास जितात्मा सुसमाहितः

22.7

दशवर्षसहस्राणि चचार विपुलं तपः ।
तमुवाच महादेवः प्रसन्नो वृषभध्वजः

22.8

भोभो ब्रूहि महाभाग यत्ते मनसि वर्तते ।
दाता ह्यहम् असंदेहो यद्यपि स्यात् सुदुर्लभम्

22.9

अग्निरुवाच:
नर्मदेयं महाभागा सरितो याश्च षोडश ।
भवन्तु मम पत्न्यस्तास्त्वत्प्रसादान्महेश्वर

22.10

तासु वै चिन्तितान् पुत्रान् अग्र्यान् उत्पादयाम्यहम् ।
एष एव वरो देव दीयतां मे महेश्वर

22.11

ईश्वर उवाच:
एतास्तु धिष्णिनाम्न्यो वै भविष्यन्ति सरिद्वराः ।
पत्न्यस्तव विशालाक्ष्यो वेदे ख्याता न संशयः

22.12

तासां पुत्रा भविष्यन्ति ह्यग्नयो ये ऽध्वरे स्मृताः ।
धिष्ण्यानाम सुविख्याता यावदाभूतसम्प्लवम्

22.13

एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
नर्मदा च सरिच्छ्रेष्ठा तस्य भार्या बभूव ह

22.14

कावेरी कृष्णवेणी च रेवा च यमुना तथा ।
गोदावरी वितस्ता च चन्द्रभागा इरावती

22.15

विपाशा कौशिकी चैव सरयूः शतरुद्रिका ।
शिप्रा सरस्वती चैव ह्रादिनी पावनी तथा

22.16

एताः षोडशा नद्यो वै भार्यार्थं संव्यवस्थिताः ।
तदात्मानं विभज्याशु धिष्णीषु स महाद्युतिः

22.17

व्यभिचारात् तु भर्तुर् वै नर्मदाद्यासु धिष्णिषु ।
उत्पन्नाः शुचयः पुत्राः सर्वे ते धिष्ण्यपाः स्मृताः

22.18

तस्याश्च नर्मदायास्तु धिष्णीन्द्रो नाम विश्रुतः ।
बभूव पुत्रो बलवान्रूपेणाप्रतिमो नृप

22.19

ततो देवासुरं युद्धम् अभवल्लोमहर्षणम् ।
मयतारकम् इत्येवं त्रिषु लोकेषु विश्रुतम्

22.20

तत्र दैत्यैर् महाघोरैर् मयतारपुरोगमैः ।
ताडितास्ते सुरास्त्रस्ता विष्णुं वै शरणं ययुः

22.21

त्रायस्व नो हृषीकेशा घोरादस्मान्महाभयात् ।
दैत्यान्सर्वान्संहरस्व मयतारपुरोगमान्

22.22

एवमुक्तः स भगवान्दिशो दश व्यलोकयत् ।
ततो भगवता दृष्टौ रणे पावकमारुतौ

22.23

आहूतौ विष्णुना तौ तु सकाशं जग्मतुः क्षणात् ।
स्थितौ तौ प्रणतौ चाग्रे देवदेवस्य धीमतः

22.24

ततो धिष्णिः पावकेन्द्रो देवेनोक्तो महात्मना ।
निर्दहेमान् महाघोरान् नार्मदेय महासुरान्

22.25

अथैवमुकौ तौ देवौ रणे पावकमारुतौ ।
दैत्यान् ददहतुः सर्वान् मयतारपुरोगमान्

22.26

दह्यमानास्तु ते सर्वे शस्त्रैरग्निं त्ववेष्टयन् ।
दिव्यैरग्न्यर्कसङ्काशैः शतशो ऽथ सहस्रशः

22.27

तांश्चाग्निः शस्त्रनिकरैर्निर्ददाह महासुरान् ।
ज्वालामालाकुलं सर्वं वायुना निर्मितं तदा

22.28

दह्यमानास्ततो दैत्या अग्निज्वालासमावृताः ।
प्रविश्य पातालतलं जले लीनाः सहस्रशः

22.29

ततः कुमारमग्निं तु नर्मदापुत्रमव्ययम् ।
पूजयित्वा सुराः सर्वे जग्मुस्ते त्रिदशालयम्

22.30

सशल्यस्तु महातेजा रेवापुत्रो वृतो ऽग्निभिः ।
नर्मदामागतः क्षिप्रं मातरं द्रष्टुमुत्सुकः

22.31

तं दृष्ट्वा पुत्रम् आयान्तं शस्त्रौघेण परिक्षतम् ।
नर्मदा पुण्यसलिला अभ्युत्थाय सुविस्मिता

22.32

पर्यष्वजत बाहुभ्यां प्रस्नवापीडितस्तनी ।
सशल्यं पुत्रमादाय कापिलं ह्रदमाविशत्

22.33

प्रविष्टमात्रे तु ह्रदे कापिले पापनाशिनि ।
सशल्यं तं विशल्यं च क्षणात्कृतवती तदा

22.34

स विशल्यो ऽभवद् यस्मात् प्राप्य तस्याः शिवं जलम् ।
कपिला नामतस् तेन विशल्या चोच्यते बुधैः

22.35

अन्ये ऽपि तत्र ये स्नाताः शुचयस्तु समाहिताः ।
पापशल्यैः प्रमुच्यन्ते मृता यान्ति सुरालयम्

22.36

एतत्ते सर्वमाख्यातं यत्पृष्टो ऽहं पुरा त्वया ।
उत्पत्तिकारणं तात विशल्याया नरेश्वर

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc