भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 216

216.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 216
श्रीमार्कण्डेय उवाच:
अषाढीतीर्थम् आगच्छेत् ततो भूपालनन्दन ।
कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः

216.2

चातुर्युगम् इदं तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत्

216.3

तत्र तीर्थे तु यः कश्चित् कुरुते प्राणमोक्षणम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc