भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 208

208.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 208
श्रीमार्कण्डेय उवाच:
भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् ।
विख्यातं त्रिषु लोकेषु पित्ःणाम् ऋणमोचनम्

208.2

तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत्

208.3

इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः ।
पुन्नाम्नो नरकात्पुत्रो ऽस्मानयं मोचयिष्यति

208.4

पिण्डदानं जलं तात ऋणमुत्तममुच्यते ।
पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम्

208.5

अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः ।
इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः

208.6

ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु ।
प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा

208.7

ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन ।
सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने

208.8

ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा ।
तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना ।
पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः

208.9

तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि ।
मृतानां सप्त जन्मानि फलमक्षयमश्नुते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc