रेवाखाण्ड (संशोधित पाठ) · अध्याय 183
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 183
श्रीमार्कण्डेय उवाच:
अतः परं महाराज गच्छेत् केदारसंज्ञकम् ।
यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् ।
सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत्
युधिष्ठिर उवाच:
कथम् अत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् ।
उत्तरे नर्मदाकूले एतद्विस्तरतो वद
श्रीमार्कण्डेय उवाच:
पुरा कृतयुगस्यादौ शङ्करस् तु महेश्वरः ।
भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके
अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया
तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारश्चिरं धमनिसंततः
ततः प्रत्यक्षतामागाल् लिङ्गीभूतो महेश्वरः ।
प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम्
ददर्शाथ भृगुर्देवम् औत्पलीं केलिकामिव ।
स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च
एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव ।
पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने
भृगुरुवाच:
पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो ।
उपवित्रम् इदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यतीति च प्रोच्य गता देवी विदं प्रति
पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् ।
तथा कुरु महेशान प्रसन्नो यदि शङ्कर
ईश्वर उवाच:
केदाराख्यमिदं ब्रह्मंल् लिङ्गमाद्यं भविष्यति ।
कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि
एकादशम् अदृश्यं हि क्षेत्रमध्ये भविष्यति ।
पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः
तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः ।
वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः
दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश ।
भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः
पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति ।
नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः
यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् ।
तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत ।
श्राद्धं ददाति विधिवत् तस्य प्रीताः पितामहाः
इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् ।
सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0