रेवाखाण्ड (संशोधित पाठ) · अध्याय 184
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 184
श्रीमार्कण्डेय उवाच:
धौतपापं ततो गच्छेद्भृगुतीर्थसमीपतः ।
वृषेण तु भृगुस्तत्र भूयोभूयो धुतस्ततः
धौतपापं तु तत्तेन नाम्ना लोकेषु विश्रुतम् ।
तत्र स्थितो महादेवस्तुष्ट्यर्थं भृगुसत्तमे
तत्र तीर्थे तु यः स्नात्वा शाठ्येनापि नरेश्वर ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
यस्तु सम्यग्विधानेन तत्र स्नात्वार्चयेच्छिवम् ।
देवान्पित्ःन्समभ्यर्च्य मुच्यते सर्वपातकैः
ब्रह्महत्या गवां वध्या तत्र तीर्थे युधिष्ठिर ।
प्रविशेन्न सदा भीता प्रविष्टापि क्षयं व्रजेत्
युधिष्ठिर उवाच:
आश्चर्यभूतं लोके ऽस्मिन्कथयस्व द्विजोत्तम ।
प्रविशेन्न ब्रह्महत्या यथा वै धौतपाप्मनि
ब्रह्महत्यासमं पापं भविता नेह किंचन ।
कथं वा धौतपापे तु प्रविष्टं नश्यते द्विज ।
एतद्विस्तरतः सर्वं पृच्छामि वद कौतुकात्
मार्कण्डेय उवाच:
आदिसर्गे पुरा शम्भुर्ब्रह्मणः परमेष्ठिनः ।
विकारं पञ्चमं दृष्ट्वा शिरो ऽश्वमुखसन्निभम्
अङ्गुष्ठाङ्गुलियोगेन तच्छिरस्तेन कृन्तितम् ।
कृत्तमात्रे तु शिरसि ब्रह्महत्याभक्तदा
ब्रह्महत्यायुतश्चासीद् उत्तरे नर्मदातटे ।
धुनितं तु यतो राजन्वृषेण धर्ममूर्तिना
तत्र धौतेश्वरीं देवीं स्थापितां वृषभेण तु ।
ददर्श भगवाञ्छम्भुः सर्वदैवतपूजिताम्
दृष्ट्वा धौतेश्वरीं दुर्गां ब्रह्महत्याविनाशिनीम् ।
तत्र विश्रममाणश्च शङ्करस्त्रिपुरान्तकः
स शङ्करो ब्रह्महत्याविहीनं मेने आत्मानं तस्य तीर्थस्य भावात् ।
सुविस्मितो देवदेवो वरेण्यो दृष्ट्वा दूरे ब्रह्महत्यां च तीर्थात्
विधौतपापं महितं धर्मशक्त्या विशेन्न हत्या देवीभयात् प्रभीता ।
रक्ताम्बरा रक्तमाल्योपयुक्ता कृष्णा नारी रक्तदामप्रसक्ता
मां वाञ्छन्ती स्कन्धदेशं रहस्ये दूरे स्थिता तीर्थवर्यप्रभावात् ।
संचिन्त्य देवो मनसा स्मरारिर्वासाय बुद्धिं तत्र तीर्थे चकार
विमृश्य देवो बहुशः स्थितः स्वयं विधौतपापः प्रथितः पृथिव्याम् ।
बभूव तत्रैव निवासकारी विधूतपापनिकटप्रदेशे
तदाप्रभृति राजेन्द्र ब्रह्महत्याविनाशनम् ।
विधौतपापं तत्तीर्थं नर्मदायां व्यवस्थितम्
आश्वयुक्शुक्लनवमी तत्र तीर्थे विशिष्यते ।
दिनत्रयं तु राजेन्द्र सप्तम्यादिविशेषतः
समुपोष्याष्टमीं भक्त्या साङ्गं वेदं पठेत्तु यः ।
अहोरात्रेण चैकेन ऋग्यजुःसामसंज्ञकम्
अभ्यसन्ब्रह्महत्याया मुच्यते नात्र संशयः ।
वृषलीगमनं चैव यश्च गुर्वङ्गनागमः
स्नात्वा ब्रह्मरसोत्कृष्टे कुम्भेनैव प्रमुच्यते ।
वन्ध्या स्त्रीजननी या तु काकवन्ध्या मृतप्रजा
सापि कुम्भोदकैः स्नाता जीवत्पुत्रा प्रजावती ।
अपठस्तु नर उपोष्य ऋग्यजुःसामसम्भवाम्
ऋचमेकां जपन्विप्रस्तथा पर्वणि यो नृप ।
अनृचोपोष्य गायत्रीं जपेद्वै वेदमातरम्
जपन्नवम्यां विप्रेन्द्रो मुच्यते पापसञ्चयात् ।
एवं तु कथितं तात पुराणोक्तं महर्षिभिः
धौतपापं महापुण्यं शिवेन कथितं मम ।
प्राणत्यागं तु यः कुर्याज्जले वाग्नौ स्थले ऽपि वा
स गच्छति विमानेन ज्वलनार्कसमप्रभः ।
हंसबर्हिप्रयुक्तेन सेव्यमानो ऽप्सरोगणैः
शिवस्य परमं स्थानं यत्सुरैरपि दुर्लभम् ।
क्रीडते स्वेच्छया तत्र यावच्चन्द्रार्कतारकम्
धौतपापे तु या नारी कुरुते प्राणसंक्षयम् ।
तत्क्षणादेव सा पार्थ पुरुषत्वमवाप्नुयात्
अथ किं बहुनोक्तेन शुभं वा यदि वाशुभम् ।
तदक्षयफलं सर्वं धौतपापे कृतं नृप
संन्यसेन्नियमेनान्नं संन्यसेद् विषयादिकम् ।
फलमूलादिकं चैव जलमेकं न संत्यजेत्
एवं यः कुरुते पार्थ रुद्रलोकं स गच्छति ।
तत्र भुक्ताखिलान्भोगाञ्जायते भुवि भूपतिः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0