भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 181

181.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 181
श्रीमार्कण्डेय उवाच:
अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् ।
यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः

181.2

तत्र तीर्थे तु विख्यातं वृषखातम् इति श्रुतम् ।
भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल

181.3

युधिष्ठिर उवाच:
भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना ।
तपस्तप्त्वा सुविपुलं परां सिद्धिम् उपागतः

181.4

को वा वृष इति प्रोक्तस् तत् खातं येन खानितम् ।
एतत्सर्वं यथान्यायं कथयस्व ममानघ

181.5

श्रीमार्कण्डेय उवाच:
एष प्रश्नो महाराज यस्त्वया परिपृच्छितः ।
तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप

181.6

षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः ।
तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे

181.7

दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः ।
निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः

181.8

ततः कदाचिद् देवेशो विमानवरमास्थितः ।
उमया सहितः श्रीमांस्तेन मार्गेण चागतः

181.9

दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् ।
उवाच देवी देवेशं किमिदं दृश्यते प्रभो

181.10

ईश्वर उवाच:
भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् ।
दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः

181.11

जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः ।
संवत्सरशतं साग्रं तिष्ठते च वरानने

181.12

तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा ।
उवाच देवी देवेशं शूलपाणिं महेश्वरम्

181.13

सत्यमुग्रो ऽसि लोके त्वं ख्यापितो वृषभध्वज ।
निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः

181.14

दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् ।
ब्राह्मणस्य वरं कस्मान् न प्रयच्छसि शंस मे

181.15

एवमुक्तो ऽथ देवेशः प्रहस्य गिरिनन्दिनीम् ।
उवाच नरशार्दूल मेघगम्भीरया गिरा

181.16

स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति ।
गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः

181.17

क्रोधान्वितो द्विजो गौरी तेन सिद्धिर् न विद्यते ।
वर्षायुतैस् तथा लक्षैर् न किंचित् कारणं प्रिये

181.18

एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् ।
एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे

181.19

वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः ।
ध्यानप्राप्तः क्षणाद् एव गर्जयन् वै मुहुर्मुहुः

181.20

किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना ।
करोमि कस्य निधनमकाले परमेश्वर

181.21

ईश्वर उवाच:
कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् ।
येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी

181.22

एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् ।
नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः

181.23

ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले ।
ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः

181.24

पशुवत्ते वधिष्यामि दण्डघातेन मस्तके ।
शिखायज्ञोपवीते च परिधानं वरासने

181.25

सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत्

181.26

भृगुरुवाच:
पापकर्मन्दुराचार कथं यास्यसि मे वृष ।
अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा

181.27

गर्जयित्वा महानादं ततो विप्रमपातयत् ।
आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना

181.28

भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः ।
करे गृह्य महादण्डं ब्रह्मदण्डम् इवापरम्

181.29

हन्तुकामो वृषं विप्रो ऽभ्यधावत युधिष्ठिर ।
धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे

181.30

जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च ।
गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम्

181.31

उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर ।
पातालं सुतलं पश्चाद्वितलं च तलातलम्

181.32

तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ ।
ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः

181.33

भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा ।
अनुगम्यमानो विप्रेण न शर्म लभते क्वचित्

181.34

पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः ।
ततो जगाम शरणं ब्रह्माणं विष्णुमेव च

181.35

इन्द्रं चन्द्रं तथादित्यैर् याम्यवारुणमारुतैः ।
यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः

181.36

तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् ।
वध्यमानं महादेवो भृगुणा परमेष्ठिना

181.37

सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो ।
दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः

181.38

ततः प्रोवाच भगवान् स्मितपूर्वम् इदं वचः

181.39

ईश्वर उवाच:
पश्य देवि महाभागे शमं विप्रस्य सुन्दरि

181.40

पार्वत्युवाच:
यावद्विप्रो न चास्माकं कुप्यते परमेश्वर ।
तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम्

181.41

ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः ।
उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह

181.42

भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः ।
यस्मात् तस्माद् इदं तात क्रोधस्थानं भविष्यति

181.43

ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् ।
जानुभ्याम् अवनिं गत्वा इदं स्तोत्रम् उदैरयत्

181.44

भृगुरुवाच:
प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् ।
भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि

181.45

त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य ।
वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य

181.46

भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष ।
स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य

181.47

सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव ।
भवभीतो भुवनपते भुवनेश शरणनिरतस्य

181.48

यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः ।
त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम्

181.49

उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः ।
चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम्

181.50

शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव ।
भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ

181.51

परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् ।
परवदनवीक्षणपरं परमेश्वर मां परित्राहि

181.52

अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् ।
क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि

181.53

दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा ।
छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि

181.54

तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् ।
छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश

181.55

करुणाभ्युदयं नाम स्तोत्रम् इदं सर्वसिद्धिदं दिव्यम् ।
यः पठति भृगुं स्मरति च शिवलोकम् असौ प्रयाति देहान्ते

181.56

एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् ।
उवाच वरदो ऽस्मीति देव्या सह वरोत्तमम्

181.57

भृगुरुवाच:
प्रसन्नो देवदेवेश यदि देयो वरो मम ।
सिद्धिक्षेत्रम् इदं सर्वं भविता मम नामतः

181.58

भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया ।
देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति

181.59

अत्र स्थाने महास्थानं करोमि जगदीश्वर ।
तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः

181.60

ईश्वर उवाच:
श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज ।
अनुमान्य श्रियं देवीं यदीयं मन्यते भवान्

181.61

कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा ।
एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम्

181.62

कृत्वा च पारणं तत्र वसन्विप्रस्तया सह ।
श्रिया च सहितः काल इदं वचनम् अब्रवीत्

181.63

भृगुरुवाच:
यदि ते रोचते भद्रे दुःखासीनं च ते यदि ।
त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम्

181.64

श्रीरुवाच:
मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् ।
स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः

181.65

भृगुरुवाच:
कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे ।
संमन्त्र्य सहितं तेन शोभनं भवती कुरु

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc