भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 174

174.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 174
श्रीमार्कण्डेय उवाच:
गोपेश्वरं ततो गच्छेदुत्तरे नर्मदातटे ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर् नराः

174.2

तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
बर्हियुक्तेन यानेन स गच्छेच्छिवमन्दिरे

174.3

क्रीडित्वा सुचिरं कालं शिवलोके नराधिप ।
इह मानुष्यतां प्राप्य राजा भवति वीर्यवान्

174.4

हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं नरः

174.5

सम्प्राप्ते कार्त्तिके मासि नवम्यां शुक्लपक्षतः ।
सोपवासः शुचिर्भूत्वा दीपकांस्तत्र दापयेत्

174.6

गन्धपुष्पैः समभ्यर्च्य रात्रौ कुर्वीत जागरम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप

174.7

यावत्पुण्यं फलं संख्या दीपकानां तथैव च ।
तावद्युगसहस्राणि शिवलोके महीयते

174.8

तस्मिंस्तीर्थे तु राजेन्द्र लिङ्गपूरणकं विधिम् ।
तथैव पद्मकैश्चैव दधिभक्तैस्तथैव च

174.9

यस्तु कुर्यान् नरश्रेष्ठ तस्य पुण्यफलं शृणु ।
यावन्ति तिलसंख्यानि दधिभक्तं तथैव च

174.10

पद्मसंख्या शिवे लोके मोदते कालमीप्सितम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यत्किंचिद् दीयते नृप

174.11

सर्वं कोटिगुणं तस्य संख्यातुं वा न शक्यते ।
एवं ते कथितं सर्वं सर्वतीर्थमनुत्तमम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc