रेवाखाण्ड (संशोधित पाठ) · अध्याय 12
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥
र्क्व् अध्याय 12
श्रीमार्कण्डेय उवाच:
एतच्छ्रुत्वा वचो राजन्संहृष्टा ऋषयो ऽभवन् ।
नर्मदां स्तोतुमारब्धाः कृताञ्जलिपुटा द्विजाः
नमो ऽस्तु ते पुण्यजले नमो मकरगामिनि ।
नमस्ते पापमोचिन्यै नमो देवि वरानने
नमो ऽस्तु ते पुण्यजलाश्रये शुभे विशुद्धसत्त्वं सुरसिद्धसेविते ।
नमो ऽस्तु ते तीर्थगणैर्निषेविते नमो ऽस्तु रुद्राङ्गसमुद्भवे वरे
नमो ऽस्तु ते देवि समुद्रगामिनि नमो ऽस्तु ते देवि वरप्रदे शिवे ।
नमो ऽस्तु लोकद्वयसौख्यदायिनि ह्यनेकभूतौघसमाश्रिते ऽनघे
सरिद्वरे पापहरे विचित्रिते गन्धर्वयक्षोरगसेविताङ्गे ।
सनातनि प्राणिगणानुकम्पिनि मोक्षप्रदे देवि विधेहि शं नः
महागजैर् घमहिषैर् वराहैः संसेविते देवि महोर्मिमाले ।
नताः स्म सर्वे वरदे सुखप्रदे विमोचयास्मान्पशुपाशबन्धात्
पापैरनेकैरशुभैर्विबद्धा भ्रमन्ति तावन्नरकेषु मर्त्याः ।
महानिलोद्भूततरङ्गभूतं यावत्तवाम्भो हि न संस्पृशन्ति
अनेकदुःखौघभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।
गतिस्त्वम् अम्भोजसमानवक्रे द्वन्द्वैरनेकैरपि संवृतानाम्
नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयो ऽत्र ।
दुःखातुराणाम् अभयं ददासि शिष्टैरनेकैरभिपूजितासि
स्पृष्टं करैश्चन्द्रमसो रवेश्च तदैव दद्यात्परमं पदं तु ।
यत्रोपलाः पुण्यजलाप्लुतास्ते शिवत्वम् आयान्ति किमत्र चित्रम्
भ्रमन्ति तावन्नरकेषु मर्त्या दुःखातुराः पापपरीतदेहाः ।
महानिलोद्भूततरङ्गभङ्गं यावत्तवाम्भो न हि संश्रयन्ति
म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति ये ऽम्भस्तव देवि पुण्यम् ।
मुक्ता भवन्तीह भयात्तु घोरान्निःसंशयं तेऽपि किमत्र चित्रम्
सरांसि नद्यः क्षयमभ्युपेता घोरे युगे ऽस्मिन् हि कलौ प्रदूषिते ।
त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा
तव प्रसादाद् वरदे वरिष्ठे कालं यथेमं परिपालयित्वा ।
यामो ऽथ रुद्रं तव सुप्रसादाद् वयं तथा त्वं कुरु वै प्रसादम्
गतिस्त्वमम्बेव पितेव पुत्रांस्त्वं पाहि नो यावदिमं युगान्तम् ।
कालं त्वनावृष्टिहतं सुघोरं यावत्तरामस्तव सुप्रसादात्
पठन्ति ये स्तोत्रमिदं द्विजेन्द्राः शृण्वन्ति ये चापि नराः प्रशान्ताः ।
ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताश्च
ये स्तोत्रमेतत् सततं पठन्ति स्नात्वा तु तोये खलु नर्मदायाः ।
अन्ते हि तेषां सरिदुत्तमेयं गतिं विशुद्धाम् अचिराद् ददाति
प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवं च ।
स मुक्तपापः सुविशुद्धदेहः समाश्रयं याति महेश्वरस्य
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0