रेवाखाण्ड (संशोधित पाठ) · अध्याय 11
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥
र्क्व् अध्याय 11
युधिष्ठिर उवाच:
अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते ।
तस्मात्सदा सेव्यतमा मुनीन्द्रैर् ध्यानार्चनस्नानपरायणैश्च
यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः ।
ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः
मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः ।
दशद्वादशभिर्वापि षड्भिरष्टाभिर् एव वा
त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च ।
मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात्
ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् ।
अर्चयन्पापमखिलं जहात्येव न संशयः
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः ।
ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद
श्रीमार्कण्डेय उवाच:
जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते ।
भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे
तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः ।
अवाप्तिर्जायते पुंसां श्रद्धया परया नृप
तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः ।
ईशो ऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते
अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत ।
तस्मात् समाश्रयेद् भक्तिं रुद्रस्य परमेष्ठिनः
तेषांहि सफलं जन्म येषां भक्तिरचञ्चला ।
सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा
तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् ।
ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः
जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् ।
देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः
ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः ।
ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः
त्रयीमार्गम् असन्दिग्धास्ते यान्ति परमां गतिम् ।
एकाग्रमनसो ये तु शङ्करं शिवमव्ययम्
अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः ।
कालेन महता सिद्धिर्जायते ऽन्यत्र देहिनाम्
नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते ।
षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः
वैष्णवा ज्ञानसम्पन्नास्ते ऽपि सिध्यन्ति चाग्रतः ।
सर्वयोगविदो ये च समुद्रमिव सिन्धवः
एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः ।
सर्वेषामेव योगानां योगो माहेश्वरो वरः
तमासाद्य विमुच्यन्ते ये ऽपि स्युः पापयोनयः ।
शिवमर्च्य नदीकूले जायन्ते ते न योनिषु
गतिरेषा दुरारोहा सर्वपापक्षयंकरी ।
मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः
तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः ।
नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात्
त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गम् आदरात् ।
सर्वरोगविनिर्मुक्तः स याति परमां गतिम्
षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् ।
ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः
यथा दिनकरस्पृष्टं हिमं शैलाद् विशीर्यन्ते ।
तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः
वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः ।
तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह
नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये ।
सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः
व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये ।
शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम्
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।
वैश्यान्नम् अन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम्
शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः ।
ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते
दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्
विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः ।
नरकं यान्त्यसन्दिग्धमित्येवं शङ्करो ऽब्रवीत्
ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः ।
ते महत्पापसंघातं दहन्त्येव न संशयः
विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः ।
असंग्राह्या इत्येवं श्रुतिनोदना
मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः ।
नष्टा ज्ञानावलेपेन अहङ्कारेण ऽपरे
शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः ।
क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम्
अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः ।
न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः
महाभाग्ये ऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः ।
वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः
न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते ।
अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति
एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः ।
परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः
ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च ।
ईशानं पश्यते साक्षात् षण्मासात् सङ्गवर्जितः
संहिताया दशावृत्तीर्यः करोति सुसंयतः ।
नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः
पुराणसंहितां वापि शैवीं वा वैष्णवीमपि ।
यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः
आ भूतसंक्षयं यावत्स्वर्गलोके महीयते ।
संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना
देवर्षिसिद्धगन्धर्वसमवाये शिवालये ।
नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम्
स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम्
संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः ।
नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम्
शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् ।
चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप
दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज ।
यदि संसारजलधेर् वीचीप्रेङ्खोल्लनातुरः
जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् ।
स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः
मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् ।
प्राणिनं सर्वशरणं तद्भावि शरणं तव
कालः करालको बालः को मृत्युः को यमाधमः ।
शिवविष्णुपराणां हि नराणां किं भयं भवेत्
भवभारार्तजन्तूनां रेवातीरनिवासिनाम् ।
भर्गश्च भगवांश्चैव भवभीतिविभेदनौ
शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज ।
शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि
पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप ।
धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम्
किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः ।
यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः
किं संसारगजोन्मत्तबृंहितैर् निभृतैरपि ।
यदि पञ्चाननो देवो भावगन्धोपसेवितः
रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् ।
भवानीवल्लभं भीमं जप त्वं भयनाशनम्
नर्मदातीरनिलयं दुःखौघविलयंकरम् ।
स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम्
विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च ।
उन्मत्तवद् भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि
भज रेवाजलं पुण्यं यज रुद्रं सनातनम् ।
जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम्
क्लेशयित्वा निजं कायम् उपायैर् बहुभिस्तु किम् ।
भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम्
एवं कैलासमासाद्य नदीं स शिवसन्निधौ ।
जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना
मार्कण्डेय उवाच:
स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः ।
नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः
विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः ।
मृत्युलाङ्गलजाप्येन समो यो ऽप्यधिको गुणैः
बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति ।
तथा लाङ्गलमन्त्रो ऽपि न तिष्ठति गतायुषि
गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः ।
अग्निम् ईडे इषेत्वो वा अग्न आयाहि नित्यदा
शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः
साङ्गोपाङ्गांस् तथा वेदाञ्जपन्नित्यं समाहितः ।
न तत्फलमवाप्नोति गायत्र्या संयमी यथा
रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते ।
नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत्
एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः ।
ते मृता वैष्णवं यान्ति पदं वा शैवम् अव्ययम्
सत्यलोकं नराः केचित्सूर्यलोकं तथापरे ।
अप्सरोगणसंवीता यावदाभूतसम्प्लवम्
एवं वै वर्तमाने ऽस्मिंल्लोके तु नृपपुंगव ।
ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम्
मया सह महाभाग नर्मदातटमाश्रिताः ।
फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम्
तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः ।
षड्विंशतिसहस्राणि तानि मानुषसंख्यया
ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम ।
शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम्
ततो ऽभवदनावृष्टिर्लोकक्षयकरी तदा ।
यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम्
ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः ।
तेषां प्रभावाद् भगवान् ववर्ष बलवृत्रहा
महती भूरिसलिला समन्ताद्वृष्टिराहिता ।
ततो वृष्ट्या तु तेषां वै वर्तनं समजायत
पुनर् युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे ।
निःशेषम् अभवत् सर्वं शुष्कं स्थावरजङ्गमम्
निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् ।
अनावृष्टिहतं सर्वं भूमण्डलम् अभूद्भृशम्
ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः ।
युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप
नष्टहोमस्वधाकारे युगान्ते समुपस्थिते ।
किं कार्यं क्व नु यास्यामः को ऽस्माकं शरणं भवेत्
तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः ।
ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः
नर्मदातीरमाश्रित्य ते सर्वे गमिता मया ।
एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये
नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः ।
जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः
पितामहा ये पितरो ये चान्ये प्रपितामहाः ।
ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम्
भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः ।
धौमृणी च महाभागा मम भार्या शुचिस्मिता ।
मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा
पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः ।
तथान्ये च महाभागा नियमव्रतचारिणः ।
अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः
तस्मादियं महाभागा न मोक्तव्या कदाचन ।
नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा
द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर् महाभयैः ।
मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः
तस्मात् सर्वप्रयत्नेन सेवितव्या सरिद्वरा ।
वाञ्छद्भिः परमं श्रेय इह लोके परत्र च
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0