रेवाखाण्ड (संशोधित पाठ) · अध्याय 104
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 104
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपालं सौवर्णशिलमुत्तमम् ।
प्रख्यातमुत्तरे कूले सर्वपापक्षयंकरम्
समन्ताच्छतपातेन मुनिसङ्घैः पुरा कृतम् ।
रेवायां दुर्लभं स्थानं सङ्गमस्य समीपतः
विभक्तं हस्तमात्रं च पुण्यक्षेत्रं नराधिप ।
सुवर्णशिलके स्नात्वा पूजयित्वा महेश्वरम्
नत्वा तु भास्करं देवं होतव्यं च हुताशने ।
बिल्वेनाज्यविमिश्रेण बिल्वपत्रैरथापि वा
प्रीयतां मे जगन्नाथो व्याधिर् नश्यतु मे ध्रुवम् ।
द्विजाय काञ्चने दत्ते यत्फलं तच्छृणुष्व मे
बहुस्वर्णस्य यत्प्रोक्तं यागस्य फलमुत्तमम् ।
तथासौ लभते सर्वं काञ्चनं यः प्रयच्छति
तेन दानेन पूतात्मा मृतः स्वर्गमवाप्नुयात् ।
रुद्रस्यानुचरस् तावद् यावद् इन्द्राश्चतुर्दश
ततः स्वर्गावतीर्णस्तु जायते विशदे कुले ।
धनधान्यसमोपेतः पुनः स्मरति तज्जलम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0