रावणाय ब्रह्मदत्तः शिवमन्त्रः · अध्याय 1
यदि तुष्टोऽसि मे देव अनुग्राह्यो यदि ह्यहम् ।
यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक
यं जप्त्वाऽहं महाभाग सर्वदेवेषु निर्भयः ।
अमरेषु च सर्वेषु दानवेषु पतत्रिषु ।
त्वत्प्रसादात्तु देवेश न भयं विद्यते मम
एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् ।
प्रणात्यये तु वै दद्मि न नित्यं राक्षसाधिप
अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ।
जप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि ।
अजप्त्वा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति
शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव ।
मन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम्
नमस्ते देवदेवेश सुरासुरनमस्कृत ।
भूतभव्यमहादेव हर पिङ्गललोचन
बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद ।
आरुणेयोऽसि देव त्वं त्रैलोक्यप्रभुरीश्वरः
हरो हरितनेमिस्त्वं युगान्तदहनोऽनलः ।
गणेशो लोकशम्भुश्च लोकपालो महाभुजः
महादेवो महाशूली महादंष्ट्रो महाभुजः ।
कालश्च कालरूपी च नीलग्रीवो महोदरः
वेदान्तगो वेदमयः पशूनांपतिरव्ययः ।
शूलधृच्छूलकेतुश्च नेता गोप्ता हरिः शिवः
जटी मुण्डी शिखण्डी च लगुडी च महायशाः ।
भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः
सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः ।
कमण्डलुधरो देवः पिनाकी धूर्जटिस्तथा
माननीयोऽर्हणीयश्च ओंकारः सामवेदगः ।
मृत्युश्च मृत्युदूतश्च पारियात्रश्च सुव्रतः
ब्रह्मचारी गृही योगी वीणापणवतूणवान् ।
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा
श्मशानचारी भगवानुमापतिररिन्दमः ।
भगनेत्रः प्रहर्ता च पूषदन्तनिपातनः
ज्वरहर्ता पाशहस्तः प्रलयः काल एव च ।
उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः
उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ।
वामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः
चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा
ऋतुरृतुकरः कालो मधुर्मधुरलोचनः ।
वानस्पत्यः शीकरश्च नित्यमाश्रितपूजितः
जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः ।
धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः
त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ।
देवदेवोऽभिदेवश्च चन्द्राङ्कितजटस्तथा
नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः ।
सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा
सर्वभूतनिवासश्च सर्वबन्धविमोचकः ।
मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः
पुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा ।
हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ।
भक्ताभीष्टप्रदः स्थाणुः परमात्मा सनातनः
मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ।
सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम्।
जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम्
मूल पाठ: rāvaṇāya brahmadattaḥ śivamantraḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0