भाषा

ENहिગુ
ग्रंथ पाठ

रावणवध · अध्याय 20

20.1

समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजः
दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः

20.2

अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः
रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्.

20.3

तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः,
हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.

20.4

पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"
ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.

20.5

"उपशाम्यतु, ते बुद्धिः पिण्ड-निर्वेश-कारिषु
लघु-सत्वेषु, दोषोऽयं यत्-कृतो-निहतो ऽसकौ.

20.6

न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः,
एधि कार्य-करस् त्वं मे गत्वा प्रवद राघवम्.

20.7

"दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्".
तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.

20.8

"उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !"
क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्

20.9

उक्तवान् राघवः-"सीतामानया ऽलंकृतामिति."
गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.

20.10

"जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,
रावणे जहिहि द्वेषां, जहाहि प्रमदा-वनम्.

20.11

स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,
रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके,

20.12

अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः,
आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान्.

20.13

तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्,
भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि.

20.14

दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,
दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.

20.15

अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,
भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च

20.16

मुदा संयुहि काकुत्स्थं, स्वयं चा ऽऽप्नूहि सम्पदम्,
उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघव-सन्निधिम्.

20.17

ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः
राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्.

20.18

उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,
प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्."

20.19

अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा
ममारूढवती यानं पट्टांऽशुक-वृताऽऽनना.

20.20

लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला
साऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ.

20.21

प्राप्त-चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः
इच्छामे-"ना ऽऽददे सीते ! त्वामहं गम्यतामतः".

20.22

रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम
मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.

20.23

अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,
कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः.

20.24

क्व च ख्यातो रघोर् वंशः, क्व तं पर-गृहोषिता,
अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे.

20.25

यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम्.

20.26

ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्
"स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.

20.27

दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,
मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम्.

20.28

चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,
विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः

20.29

त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्त्रयम्
चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्.

20.30

खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽति-पावनाः
यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम.

20.31

जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !
अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्.

20.32

रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,
इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.

20.33

स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव,
एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम्.

20.34

चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,
रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः

20.35

राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम्
दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः

20.36

प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,
सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.

20.37

मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा,
एषा ऽहं क्रतुषु वसोर् यथा ऽऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम्.

मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc