रत्नगुणसंचयगाथा · श्लोक 32.5-1
लोकं प्रापयितुं सुखेन पदवीं संपद्दूयावाहिनीं कारुण्याहितचेतसा भगवता बुद्धेन संदीपितम्
श्रुत्वा ते ऽखिलधर्मतत्त्वनिलयं सूत्रं समादानतो गत्वा स्थानमहर्निशं निजमलं ध्मायन्तु ये ऽभ्यागताः ॥
काले ऽस्मिन् बहुदृष्टिसंकुलकलौ पाठे ऽपि दूरं गते गाथाभेदमनेकपुस्तकगतं दृष्ट्वाधुना न्यायतः
कूपं वादिगजेन्द्रकुम्भदरणे भद्रेण या शोधिता लोकार्थं हरिणा मया सुविहिता सेयं बुधैर्गृह्यताम् ॥
यो ऽसौ धर्मं सुगतगदितं पठते भक्तिभावान् मात्राहीनं कथमपि पदं पादगाथाक्षरं वा
जिह्वादोषैः पवनचरितैः श्लेष्मदोषप्रचारैर् यूयं बुद्धाः सुभवनगता बोधिसत्त्वाः क्षमध्वम् ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0