रत्नगुणसंचयगाथा · अध्याय 32
दानेन प्रेतगति छिन्दति बोधिसत्त्वो दारिद्रकं च छिनती तथ सर्वक्लेशान्
भोगांश्चनन्तविपुलां लभते चरन्तो दानेन सत्त्व परिपाचयि कृच्छ्रप्राप्तान् ॥
शीलेन तीर्यगति वर्जयि नेकरुपाम् अष्टौ च अक्षण क्षणां लभते स नित्यम्
क्षान्तीय रुप लभते परमं उदारं सुवर्णच्छवि प्रियु जगस्य उदीक्षणीयो ॥
वीर्येण शुक्लगुण हानि न अभ्युपैति ज्ञानं अनन्त लभते जिनकोशगञ्जम्
ध्यानेन कामगुण उत्सृजते जुगुप्स्यान् विद्या अभिज्ञ अभिनिर्हरते समाधिम् ॥
प्रज्ञाय धर्मप्रकृती परिजानयित्वा त्रैधातुकान्त समतिक्रमते अपायान्
वर्तित्व चक्ररतनं पुरुषर्षभाणां देशेति धर्म जगती दुखसंक्षयाये ॥
परिपूरयित्व इमि धर्म स बोधिसत्त्वो अपि क्षेत्रशुद्धि परिगृह्णति सत्त्वशुद्धिम्
अपि बुद्धवंश परिगृह्णति धर्मवंशं तथ संघवंश परिगृह्णति सर्वधर्मान् ॥
वैद्योत्तमो जगति रोगचिकित्सकारी प्रज्ञोपदेश कथितो अयु बोधिमार्गो
नामेन रत्नगुणसंचय बोधिमार्गः तं सर्वसत्त्व इतु मार्गतु प्राप्नुवन्ति ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0