रत्नगुणसंचयगाथा · अध्याय 31
शीलेन उद्गत भवन्ति समाधिकाङ्क्षी स्थित गोचरे दशबलान अखण्डशीलाः
यावन्ति संवरक्रिय अनुवर्तयन्ति तां सर्वसत्त्वहित बोधयि नामयन्ति ॥
सचि प्रत्ययानरहबोधि स्पृहां जनेति [दुःशील भोति]विदुषां तथ छिद्रचारी
अथ बोधि उत्तमशिवां परिणामयन्ति स्थितु शीलपारमित कामगुणेभि युक्तो ॥
यो धर्म बोधिगुणआगमु सूरतानां सो शीलअर्थु गुणधर्मसमन्वितानाम्
यो धर्म बोधिगुणहानि हितंकराणां दुःशीलता अयु प्रकाशितु नायकेन ॥
यदि पञ्च कामगुण भुञ्जति बोधिसत्त्वो बुद्धं च धर्म शरणागतु आर्यसंघम्
सर्वज्ञता च मनसी भविष्यामि बुद्धो स्थितु शीलपारमित वेदयितव्य विज्ञो ॥
यदि कल्पकोटि दशभी कुशलैः पथेभिश् चरमाणु प्रत्ययरहत्वस्पृहां जनेति
तद खण्डशीलु भवते अपि छिद्रशीलो पाराजिको गुरुतरो अयु चित्तुपादो ॥
रक्षन्तु शील परिणामयि अग्रबोधिं न च तेन मन्यति न आत्मन कर्षयेथा
अहुसंज्ञता च परिवर्जित सत्त्वसंज्ञा स्थितु शीलपारमिति वुच्यति बोधिसत्त्वो ॥
यदि बोधिसत्त्व चरमाणु जिनान मार्गे इमि शीलवानिमि दुशील करोति सत्त्वान्
नानात्वसंज्ञप्रसृतो परमं दुशीलो अपि छिद्रशीलु न तु सो परिशुद्धशीलो ॥
यस्यो न अस्ति अहसंज्ञ न सत्त्वसंज्ञा संज्ञाविरागु कुतु तस्य असंवरो ऽस्ति
यस्यो न संवरि असंवरि मन्यनास्ति अयु शीलसंवरु प्रकाशितु नायकेन ॥
यो एवशीलसमन्वागतु निष्प्रपञ्चो अनपेक्षको भवति सर्वप्रियाप्रियेषु
शिरहस्तपाद त्यजमान अदीनचित्तो सर्वास्तित्यागि भवते सततं अलीनो ॥
ज्ञात्वा च धर्मप्रकृतीं वशिका निरात्म्यं आत्मान मांस त्यजमानु अदीनचित्तो
प्रागेव वस्तु तद बाहिर नात्यजेया अस्थानमेत यदि मत्सरि सो करेया ॥
अहसंज्ञतस्तु ममता भवते च रागो कुतु त्यागबुद्धि भविष्यति सा मुहानाम्
मात्सर्य प्रेत भवते उपपद्ययाती अथवा मनुष्य तद भोति दरिद्ररूपो ॥
तद बोधिसत्त्व इमि ज्ञात्व दरिद्रसत्त्वान् दानाधिमुक्त भवती सद मुक्तत्यागी
चत्वारि द्वीपि समलंकृतु खेटतुल्यं दत्त्वा उदग्र भवते न हि द्वीपलब्धो ॥
दानं ददित्व विदु पण्डितु बोधिसत्त्वो यावन्ति सत्त्व त्रिभवे समन्वाहरित्वा
सर्वेषु तेषु भवते अयु दत्तदानं तं चाग्रबोधि परिणामयते जगार्थम् ॥
न च वस्तुनिश्रयु करोति ददित्व दानं विदु पाकु नैव प्रतिकाङ्क्षति सो कदाचित्
एवं त्यजित्व भवते विदु सर्वत्यागी अल्पं त्यजित्व लभते बहु अप्रमेयम् ॥
यावन्त सत्त्व त्रिभवे निखिलेन अस्ति ते सर्वि दान ददयन्ति अनन्तकल्पान्
बुद्धानुलोकि विदु नार्हतिप्रत्ययानां यावन्ति श्रावकगुणान् परिकल्प स्थाने ॥
यश्चो उपायकुशलो विदु बोधिसत्त्वो तेषां स पुण्यक्रियवस्त्वनुमोदयित्वा
सत्त्वार्थ अग्रवरबोधयि नामयेया अभिभोति सर्वजगती परिणामयुक्तो ॥
काचस्य वा मणिन राशि सिया महन्तो वैडूर्यरत्न अभिभोति स सर्व एको
एमेव सर्वजगती पृथु दानस्कन्धो अभिभोति सर्वपरिणामकु बोधिसत्त्वो ॥
यदि बोधिसत्त्व ददमान जगस्य दानं ममतां न तत्र करयेन्न च वस्तुप्रेम
ततु वर्धते कुशलमूल महानुभावो चन्द्रो व तत्र प्रभमण्डलु शुक्लपक्षे ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0