रत्नगुणसंचयगाथा · अध्याय 22
तस्मा हु मानु निहनित्वन पण्डितेन गुरुआशयेन वरबोधि गवेषमाणः
वैद्यो व आतुर स्वरोगचिकित्सनार्थं कल्याणमित्र भजितव्य अतन्द्रितेन ॥
बुद्धा य बोधिवरप्रस्थित बोधिसत्त्वा कल्याणमित्र इमि पारमिता निदिष्टाः
ते चानुशासक इयं प्रतिपत्तिभूमी दुवि कारणेन अनुबुध्यति बुद्धबोधिम् ॥
अतिक्रान्तनागत जिना स्थित ये दिशासु सर्वेषु मार्गु अयु पारमिता अनन्यो
ओभास उल्क वरबोधयि प्रस्थितानाम् आलोक शास्त्रि इमि पारमिता प्रदिष्टाः ॥
यथ प्रज्ञपारमित शून्यत लक्षणेन तथलक्षणा य इमि जानति सर्वधर्मान्
शून्यानलक्षण प्रजानयमान धर्मान् एवं चरन्तु चरती सुगतान प्रज्ञाम् ॥
आहारकाम परिकल्पयमान सत्त्वाः संसारि युक्तमनसः सद संस्मरन्ति
अहु मह्य धर्म उभि एति अभूत शून्या आकाशगण्ठि अयु आत्मन बद्ध बाले ॥
यथ शङ्कितेन विषसंज्ञत अभ्युपैति नो चास्य कोष्ठगतु सो विषु पात्यते च
एमेव बालुपगतो अहु मह्य एषो अहसंज्ञि जायि म्रियते च सदा अभूतो ॥
यथ उद्ग्रहो तथ प्रकाशितु संकिलेशो व्योदान उक्त अहु मह्य अनोपलब्धि
न हि अत्र कश्चि यो क्लिश्यति शुध्यते वा प्रज्ञाय पारमित बुध्यति बोधिसत्त्वे ॥
यावन्त सत्त्व निखिले इह जम्बुद्विपे ते सर्वि बोधिवरचित्त उपादयित्वा
दानं ददित्व बहुवर्षसहस्रकोटीः सर्वं च नामयि जगार्थनिदान बोधौ ॥
यश्चैअव प्रज्ञवरपारमिताभियुक्तो दिवसं पि अन्तमश एकनुवर्तयेया
कलपुण्य सो न भवती इह दानस्कन्धो तदतन्द्रितेन सद ओसरितव्य प्रज्ञा ॥
चरमाणु प्रज्ञवरपारमिताय योगी महतीं जनेति करुणां न च सत्त्वसंज्ञा
तद भोन्ति सर्वजगती विदु दक्षिणीया सततं अमोघु परिभुञ्जति राष्ट्रपिण्डम् ॥
चिरबुद्धदेवमनुजान् त्रिअपायि सत्त्वान् परिमोचितुं य इह इच्छति बोधिसत्त्वो
पृथुमार्गु तीरु उपदर्शयि सत्त्वधातौ प्रज्ञाय पारमित युक्त दिवा च रात्रौ ॥
पुरुषो य अग्रु रतनस्य अलब्धपूर्वो अपरस्मि कालि पुन लब्ध्व भवेय तुष्टो
स ह लब्ध्व नाशयि पुनो ऽपि प्रमादभूतो नाशित्व दुःखि सततं रतनाभिकाङ्क्षी ॥
एमेव बोधिवरप्रस्थित रत्नतुल्यो प्रज्ञाय पारमित योगु न रिञ्चितव्यो
रतनं व लब्ध्व गृहमाणु अभिन्नसत्त्वो अनुबुद्धयति त्वरितो शिवमभ्युपैति ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0