रत्नगुणसंचयगाथा · अध्याय 15
यो आदिकर्म स्थितु भूमिय बोधिसत्त्वो अध्याशयेन वर प्रस्थित बुद्धबोधिम्
तेही सुशिष्यगुरुगौरवसंप्रयुक्तो कल्याणमित्र सद सेवयितव्य विज्ञैः ॥
किं कारणं ततु गुणागमु पण्डितानां प्रज्ञाय पारमित ते अनुशासयन्ति
एवं जिनो भणति सर्वगुणाग्रधारी कल्याणमित्रमुपनिश्रित बुद्धधर्माः ॥
दानं च शीलमपि क्षान्ति तथैव वीर्यं ध्यानानि प्रज्ञ परिणामयितव्य बोधौ
न च बोधिस्कन्ध विमृशित्व परामृशेया ये आदिकर्मिक न देशयितव्य एवम् ॥
एवं चरन्त गुणसागर वादिचन्द्राः त्राणा भवन्ति जगती शरणा च लेना
गति बुद्धि द्वीप परिणायक अर्थकामाः प्रद्योत उल्क वरधर्मकथी अक्षोभ्याः ॥
संनाहु दुष्करू महायशु संनहन्ती न च स्कन्धधातु न च आयतनैः सनद्धाः
त्रिभि यानसंज्ञविगता अपरिगृहीता अविवर्तिका अचलिताश्च अकोप्यधर्माः ॥
ते एव धर्मसमुदागत निष्प्रपञ्चा काङ्क्षाविलेखविमतीविगतार्थयुक्ताः
प्रज्ञाय पारमित श्रुत्व न सीदयन्ति अपरप्रणेय अविवर्तिय वेदितव्याः ॥
गम्भीर धर्म अयु दुर्दृशु नायकानां न च केनचीदधिगतो न च प्रापुणन्ति
एतार्थु बोधिमधिगम्य हितानुकम्पी अल्पोत्सुको क इमु ज्ञास्यति सत्त्वकायो ॥
सत्त्वश्च आलयरतो विषयाभिलाषी स्थित अग्रहे अबुध यो महअन्धभूतो
धर्मो अनालयु अनाग्रहु प्रापितव्यो लोकेन सार्ध अयु विग्रहु प्रादुभूतो ॥
मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0