भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 14

14.1

यस्यामि श्रद्ध सुगते दृढ बोधिसत्त्वो वरप्रज्ञपारमितआशयसंप्रयोगो
अतिक्रम्य भूमिद्वय श्रावकप्रत्ययानां लघु प्राप्स्यते अनभिभू(तु) जिनान बोधिम् ॥

14.2

सामुद्रियाय यथ नावि प्रलुप्तिकाये भृतकं मनुष्य तृणकाष्ठमगृह्णमानो
विलयं प्रयाति जलमध्य अप्राप्ततीरो यो गृह्णते व्रजति पारस्थलं प्रयाति ॥

14.3

एमेव श्रद्धसंगतो य प्रसादप्राप्तो प्रज्ञाय पारमित मात्र विवर्जयन्ति
संसारसागर तदा सद संसरन्ति जातीजरामरणशोकतरंगभङ्गे ॥

14.4

ये ते भवन्ति वरप्रज्ञपरिगृहीता भावस्वभावकुशला परमार्थदर्शी
ते पुण्यज्ञानधनसंभृतयानपात्राः परमाद्भुतां सुगतबोधि स्पृशन्ति शीघ्रम् ॥

14.5

घटके अपक्वि यथ वारि वहेय काचित् ज्ञातव्यु क्षिप्र अयु भेत्स्यति दुर्बलत्वात्
परिपक्वि वारि घटके वहमानु मार्गे न च भेदनाद्भयमुपैति च स्वस्ति गेहम् ॥

14.6

किंचापि श्रद्धबहुलो सिय बोधिसत्त्वो प्रज्ञाविहीन विलयं लघु प्रापुणाति
तं चैव श्रद्ध परिगृह्णयमान प्रज्ञा अतिक्रम्य बोधिद्वय प्राप्स्यति अग्रबोधिम् ॥

14.7

नावा यथा अपरिकर्मकृता समुद्रे विलयमुपैति सधना सह वाणिजेभिः
सा चैव नाव परिकर्मकृता सुयुक्ता न च भिद्यते धनसमग्रमुपैति तीरम् ॥

14.8

एमेव श्रद्धपरिभावितु बोधिसत्त्वो प्रज्ञाविहीनु लघु बोधिमुपैति हानिम्
सो चैव प्रज्ञवरपारमितासुयुक्तो ऽक्षतो ऽनुपाहतु स्पृशाति जिनान बोधिम् ॥

14.9

पुरुषो हि जीर्ण दुखितो शतविंशवर्षो किंचापि उत्थितु स्वयं न प्रभोति गन्तुम्
सो वामदक्षिणद्वये पुरुषे गृहीते पतनाद्भयं न भवते व्रजते सुखेन ॥

14.10

एमेव प्रज्ञ इह दुर्बलु बोधिसत्त्वो किंचापि प्रस्थिहति भज्यति अन्तरेण
सो वा उपायबलप्रज्ञपरिगृहीतो न च भज्यते स्पृशति बोधि नरर्षभाणाम् ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc