भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 11

11.1

बुद्धं सुभूति परिपृच्छति वादिचन्द्रं क्यन्तन्तरायु भविष्यन्ति गुणे रतानाम्
बहु अन्तरायु भविष्यन्ति भणाति शास्त ततु अल्पमात्र परिकीर्तयिष्यामि तावत् ॥

11.2

प्रतिभान नेक विविधानि उपपद्यिष्यन्ति लिखमान प्रज्ञ इमु पारमिता जिनानाम्
युत शीघ्र विद्युत यथा परिहायिष्यन्ति अकरित्व अर्थ जगती इमु मारकर्म ॥

11.3

काङ्क्षा च केषचि भविष्यति भाषमाणे न ममात्र नाम परिकीर्तितु नायकेन
न च जाति भूमि परिकीर्तितु नापि गोत्रं न च सो श्रुणिष्यति क्षिपिष्यति मारकर्म ॥

11.4

एवं त मूलमपहाय अजानमानो शाखापलाश परिएषयिष्यन्ति मूढाः
हस्तिं लभित्व यथ हस्तिपदं गवेषे तथ प्रज्ञपारमित श्रुत्व सूत्रान्त एषेत् ॥

11.5

यथ भोजनं शतरसं लभियान कश्चित् मार्गेषु षष्टिकु लभित्व स भोजनाग्र्यम्
तथ बोधिसत्त्व इम पारमितां लभित्वा (अ)र्हन्तभूमि(त) गवेषयिष्यन्ति बोधिम् ॥

11.6

सत्कारकाम भविष्यन्ति च लाभकामाः सापेक्षचित्त कुलसंस्तवसंप्रयुक्ताः
छोरित्व धर्म करिष्यन्ति अधर्मकार्यं पथ हित्व उत्पथगता इम मारकर्म ॥

11.7

ये चापि तस्मि समये इमु धर्म श्रेष्ठं श्रुणनाय छन्दिक उत्पादयिष्यन्ति श्रद्धाम्
ते धर्मभाणक विदित्वन कार्ययुक्तं प्रेमापनीत गमिष्यन्ति सुदुर्मनाश्च ॥

11.8

इमि मारकर्म भविष्यन्ति य तस्मि काले अन्ये च नेक विविधा बहु अन्तराया
येही समाकुलिकृता बहु भिक्षु तत्र प्रज्ञाय पारमित एतु न धारयन्ति ॥

11.9

ये ते भवन्ति रतना य अनर्घप्राप्ता ते दुर्लभा बहुप्रत्यर्थिक नित्यकालम्
एमेव प्रज्ञवरपारमिता जिनानां दुर्लाभु धर्मरतनं बद्दुपद्रवं च ॥

11.10

नवयानप्रस्थित स सत्त्व परीत्तबुद्धिः य इमं दुर्लाभु धर्मरतनं परापुणन्ति
मारो ऽत्र उत्सुकु भविष्यति अन्तराये बुद्धा दशद्दिशि परिग्रहसंप्रयुक्ताः ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc