भाषा

ENहिગુ
ग्रंथ पाठ

रत्नगुणसंचयगाथा · अध्याय 10

10.1

शक्रो जिनस्य परिपृच्छति देवराजो चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो
अणुमात्र यो न खलु युज्यति स्कन्धधातौ यो एव युज्यति(स युज्यति)बोधिसत्त्वः ॥

10.2

चिरयानप्रस्थितु स वेदयितव्य सत्त्वो बहुबुद्धकोटिनयुतेहि कृताधिकारो
यो श्रुत्व धर्मि इमि निर्मितमायकल्पां न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः ॥

10.3

कान्तारमार्गि पुरुषो बहु(भी)जनेहि गोपाल सीम वनसंपद पश्यते यो
आश्वासप्राप्त भवती न च तस्य त्रासो अभ्याश ग्रामनगराण इमे निमित्ताः ॥

10.4

एमेव प्रज्ञवरपारमिता जिनानां शृणु तात यो लभति बोधि गवेषमाणः
आश्वासप्राप्त भवती न च तस्य त्रासो नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी ॥

10.5

पुरुषो हि सागरजलं व्रजि पश्यनाय सचि पश्यते द्रुमवनस्पतिशैलराजम्
अथवा न पश्यति निमित्त निकाङ्क्ष भोति अ(भ्याश)तो महसमुद्र न सो ऽतिदूरे ॥

10.6

एमेव बोधिवरप्रस्थितु वेदितव्यो श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम्
यद्यापि संमुख न व्याकृतु नायकेनो तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम् ॥

10.7

सुवसन्ति कालि पतिते तृणपत्रशाखा नचिरेण पत्रफलपुष्प समागमन्ति
प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता नचिरेण बोधिवर प्राप्स्यति नायकानाम् ॥

10.8

यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि ज्ञातव्यु कालु अयमस्य प्रजायनाय
तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम् ॥

10.9

चरमाणु प्रज्ञवरपारमिताय योगी न च रूपवृद्धि न च पश्यति पारिहाणिम्
धर्मा अधर्म इमु पश्यति धर्मधातुं न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् ॥

10.10

चरमाणु यो न इह कल्पयि बुद्धधर्मां बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम्
अविकल्पकल्पविगतो ऽधिष्ठानचारी एषा स प्रज्ञवरपारमिताय चर्या ॥

मूल पाठ: Ratnaguṇasaṃcayagāthā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc