रत्नगोत्रविभाग · अध्याय 3
2. द्वितीय परिच्छेद
उक्ता समला तथता । निर्मला तथतेदानीं वक्तव्या । तत्र कतमा निर्मला तथता यासौ बुद्धानां भगवतामनास्रवधातौ सर्वाकारमलविगमादाश्रयपरिवृत्तिर्व्यवस्थाप्यते । सा पुनरष्टौ पदार्थानधिकृत्य समासतो वेदितव्या । अष्टौ पदार्थाः कतमे ।
शुद्धिः प्राप्तिर्विसंयोगः स्वपरार्थस्तदाश्रयः ।
गम्भीर्यौदार्यमाहात्म्यं यावत्कालं यथा च तत्
इत्येते ऽष्टौ पदार्था यथासंख्यमनेन श्लोकेन परिदीपिताः । तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्त्यर्थो नित्यार्थो ऽचिन्त्यार्थः । तत्र यो ऽसौ धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युक्तो भगवता । तद्विशुद्धिराश्रयपरिवृत्तेः स्वभावो वेदितव्यः । यत आह । यो भगवन् सर्वक्लेशकोशकोटिगूढे तथागतगर्भे निष्काङ्क्षः सर्वक्लेशकोशविनिर्मुक्तेस्तथागतधर्मकाये ऽपि स निष्काङ्क्ष इति । द्विविधं ज्ञानं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च । लौकिकलोकोत्तरज्ञानमाश्रयपरिवृत्तिहेतुः प्राप्तिशब्देन परिदीपितः । प्राप्यते ऽनेनेति प्राप्तिः । तत्फलं द्विविधम् । द्विविधो विसंयोगः क्लेशावरणविसंयोगो ज्ञेयावरणविसंयोगश्च । यथाक्रमं स्वपरार्थसंपादनं कर्म । तदधिष्ठानसमन्वागमो योगः । त्रिभिर्गाम्भीर्यौदार्यमाहात्म्यप्रभवितैर्बुद्धकायैर्नित्यमा भवगतेरचिन्त्येन प्रकारेण वर्तनं वृत्तिरिति । उद्दानम् ।
स्वभावहेतुफलतः कर्मयोगप्रवृत्तितः ।
तन्नित्याचिन्त्यतश्चैव बुद्धभूमिष्ववस्थितिः
( र्ग्व् 80 ) तत्र स्वभावार्थे हेत्वर्थे चारभ्य बुद्धत्वे तत्प्राप्त्युपाये च श्लोकः ।
बुद्धत्वं प्रकृतिप्रभास्वरमिति प्रोक्तं यदागन्तुक- क्लेशज्ञेयघनाभ्रजालपटलच्छन्नं रविव्योमवत् ।
सर्वैर्बुद्धगुणैरुपेतममलैर्नित्यं ध्रुवं शाश्वतं
धर्माणां तदकल्पनप्रविचयज्ञानाश्रयादाप्यते
अस्य श्लोकस्यार्थः समासेन चतुर्भिः श्लोकैर्वेदितव्यः ।
बुद्धत्वमविनिर्भागशुक्लधर्मप्रभावितम् ।
आदित्याकाशवज्ज्ञानप्रहाणद्वयलक्षणम्
गङ्गातीररजो ऽतीतैर्बुद्धधर्मैः प्रभास्वरैः ।
सर्वैरकृतकैर्युक्तमविनिर्भागवृतिभिः
स्वभावापरिनिष्पत्तिव्यापित्वागन्तुकत्वतः ।
क्लेशज्ञेयावृतिस्तस्मान्मेघवत् समुदाहृता
द्वयावरणविश्लेषहेतुर्ज्ञानद्वयं पुनः ।
निर्विकल्प च तत्पृष्ठलब्धं तज्ज्ञानमिष्यते
यदुक्तमाश्रयपरिवृत्तेः स्वभावो विशुद्धिरिति तत्र विशुद्धिः समासतो द्विविधा । प्रकृतिविशुद्धिर्वैमल्यविशुद्धिश्च । तत्र प्रकृतिविशुद्धिर्या विमुक्तिर्न च विसंयोगः प्रभास्वरायाश्चित्तप्रकृतेरागन्तुकमलाविसंयोगात् । वैमल्यविशुद्धिर्विमुक्तिर्विसंयोगश्च वार्यादीनामिव रजोजलादिभ्यः प्रभास्वरायाश्चित्तप्रकृतेरनवशेषमागन्तुकमलेभ्यो विसंयोगात् । तत्र वैमल्यविशुद्धौ फलार्थमारभ्य द्वौ श्लोकौ ।
( र्ग्व् 81 ) ह्रद इव विमलाम्बुः फुल्लपद्मक्रमाढ्यः
सकल एव शशाङ्को राहुवक्त्राद्विमुक्तः ।
रविरिव जलदादिक्लेशनिर्मुक्तरश्मिर्
विमलगुणयुतत्वाद्भाति मुक्तं तदेव
मुनिवृषमधुसारहेमरत्नप्रवरनिधानमहाफलद्रुमाभम् ।
सुगतविमलरत्नविग्रहाग्रक्षितिपतिकाञ्चनबिम्बवज्जिनत्वम्
अस्य खलु श्लोकद्वयस्यार्थः समासतो ऽष्टाभिः श्लोकैर्वेदितव्यः ।
रागाद्यागन्तुकक्लेशशुद्धिरम्बुह्रदादिवत् ।
ज्ञानस्य निर्विकल्पस्य फलमुक्तं समासतः
सर्वाकारवरोपेतबुद्धभावनिदर्शनम् ।
फलं तत्पृष्ठलब्धस्य ज्ञानस्य परिदीपितम्
स्वच्छाम्बुह्रदवद्रागरजःकालुष्यहानितः ।
विनेयाम्बुरुहध्यानवार्यभिष्यन्दनाच्च तत्
द्वेषराहुप्रमुक्तत्वा न्महामैत्रीकृपांशुभिः ।
जगत्स्फरणतः पूर्णविमलेन्दूपमं च तत्
मोहाभ्रजालनिर्मोक्षाज्जगति ज्ञानरश्मिभिः ।
तमोविधमनात्तच्च बुद्धत्वममलार्कवत्
अतुल्यतुल्यधर्मत्वात् सद्धर्मरसदानतः ।
फल्गुव्यपगमात्तच्च सुगतक्षौद्रसारवत्
( र्ग्व् 82 ) पवित्रत्वाद्गुणद्रव्यदारिद्रयविनिवर्तनात् ।
विमुक्तिफलदानाच्च सुवर्णनिधिवृक्षवत्
धर्मरत्नात्मभावत्वाद् द्विपदाग्राधिपत्यतः ।
रूपरत्नाकृतित्वाच्च तद्रत्ननृप बिम्बवत्
यत्तु द्विविधं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च ज्ञानमाश्रयपरिवृत्तेर्हेतुर्विसंयोगफलसंज्ञितायाः । तत्कर्म स्वपरार्थसंपादनमित्युक्तम् । तत्र कतमा स्वपरार्थसंपत् । या सवासनक्लेशज्ञेयावरणविमोक्षादनावरणधर्मकायप्राप्तिरियमुच्यते स्वार्थसंपत्तिः । या तदूर्ध्वमा लोकादनाभोगतः कायद्वयेन संदर्शनदेशनाविभुत्वद्वयप्रवृत्तिरियमुच्यते परार्थसंपत्तिरिति । तस्यां स्वपरार्थसंपत्तौ कर्मार्थमारभ्य त्रयः श्लोकाः ।
अनास्रवं व्याप्यविनाशधर्मि च ध्रुवं शिवं शाश्वतमच्युतं पदम् ।
तथागतत्वं गगनोपमं सताम् षडिन्दियार्थानुभवेषु कारणम्
विभूतिरूपार्थविदर्शने सदा निमित्तभूतं सुकथाशुचिश्रवे ।
तथागतानां शुचिशीलजिघ्रणे महार्यसद्धर्मरसाग्रविन्दने
( र्ग्व् 83 ) समाधिसंस्पर्शसुखानुभूतिषु स्वभावगाम्भीर्यनयावबोधने ।
सुसूक्ष्मचिन्तापरमार्थगव्हरं तथागतव्योम निमित्तवर्जितम्
अस्य खलु श्लोकत्रयस्यार्थः समासतो ऽष्टभिः श्लोकैर्वेदितव्यः ।
कर्म ज्ञानद्वयस्यतद्वेदितव्यं समासतः ।
पूरणं मुक्तिकायस्य धर्मकायस्य शोधनम्
विमुक्तिधर्मकायौ च वेदितव्यौ द्विरेकधा ।
अनास्रवत्वाद्व्यापित्वादसंस्कृतपदत्वतः
अनास्रवत्वं क्लेशानां सवासननि रोधतः ।
असङ्गाप्रतिघातत्वाज्ज्ञानस्य व्यापिता मता
असंस्कृतत्वमत्यन्तमविनाशस्वभावतः ।
अविनाशित्वमुद्देशस्तन्निर्देशो ध्रुवादिभिः
नाशश्चतुर्विधो ज्ञेयो ध्रुवत्वादिविपर्ययात् ।
पूर्तिर्विकृतिरुच्छित्तिरचिन्त्यनमनच्युतिः
तदभावाद्ध्रुवं ज्ञेयं शिवं शाश्वतमच्युतम् ।
पदं तदमलज्ञानं शुक्लधर्मास्पदत्वतः
यथानिमित्तमाकाशं निमित्तं रूपदर्शने ।
शब्दगन्धरस्पृश्यधर्माणां च श्रवादिषु
( र्ग्व् 84 ) इन्द्रियार्थेषु धीराणामनास्रवगुणोदये ।
हेतुः कायद्वयं तद्वदनावरणयोगतः
यदुक्तमाकाशलक्षणो बुद्ध इति तत्पारमार्थिकमावेणिकं तथागतानां बुद्धलक्षणमभिसंधायोक्तम् । एवं ह्याह । संचेद्द्वात्रिंशन्महापुरुषलक्षणैस्तथागतो द्रष्टव्यो ऽभविष्यत्तद्राजापि चक्रवर्ती तथागतो ऽभविष्यदिति । तत्र परमार्थलक्षणे योगार्थमारभ्य श्लोकः ।
अचिन्त्यं नित्यं च ध्रुवमथ शिवं शाश्वतमथ
प्रशान्तं च व्यापि व्यपगतविकल्पं गगनवत् ।
असक्तं सर्वत्रापरतिघपरुषस्पर्शविगतं
न दृश्यं न ग्राह्यं शुभमपि च बुद्धत्वममलम्
अथ खल्वस्य श्लोकस्यार्थः समासतो ऽष्टाभिः श्लोकैर्वेदितव्यः ।
विमुक्तिधर्मकायाभ्यां स्वपरार्थो निदर्शितः ।
स्वपरार्थाश्रये तस्मिन् योगो ऽचिन्त्यादिभिर्गुणैः
अचिन्त्यमनुगन्तव्यं त्रिज्ञानाविषयत्वतः ।
सर्वज्ञज्ञानविषयं बुद्धत्वं ज्ञानदेहिभिः
श्रुतस्याविषयः सौक्ष्म्याच्चिन्तायाः परमार्थतः ।
लौक्यादिभावनायाश्च धर्मतागव्हरत्वतः
दृष्टपूर्वं न तद्यस्माद्वालैर्जात्यन्धकायवत् ।
आर्यैश्च सूतिकामध्यस्थित बालार्कबिम्बवत्
उत्पादविगमान्नित्यं निरोधविगमाद्ध्रुवम् ।
शिवमेतद्द्वयाभावाच्छाश्वतं धर्मतास्थितेः
( र्ग्व् 85 ) शान्तं निरोधसत्यत्वाद्व्यापि सर्वावबोधतः ।
अकल्पमप्रतिष्ठानादसक्तं क्लेशहानितः
सर्वत्राप्रतिघं सर्वज्ञेयावरणशुद्धितः ।
परुषस्पर्शनिर्मुक्तं मृदुकर्मण्यभावतः
अदृश्यं तदरूपित्वादग्राह्यमनिमित्ततः ।
शुभं प्रकृतिशुद्धत्वादमलं मलहानितः
यत्पुनरेतदाकाशवदसंस्कृतगुणाविनिर्भागवृत्त्यापि तथागतत्वामा भवगतेरचिन्त्यमहोपायक्रुणाज्ञानपरिकर्मविशेषेण जगद्धितसुखाधाननिमित्तममलै स्त्रिभिः स्वभाविकसांभोगिकनैर्माणिकैः कायैरनुपरतमनुच्छिन्नमनाभोगेन प्रवर्तत इति द्रष्टव्यमावेणीकधर्मयुतत्वादिति । तत्र वृत्त्यर्थमारभ्य बुद्धकायविभागे चत्वारः श्लोकाः ।
अनादिमध्यान्तमभिन्नमद्वयं त्रिधा विमुक्तं विमलाविकल्पकम् ।
समाहिता योगिनस्तत्प्रयत्नाः पश्यन्ति यं धर्मधातुस्वभावम्
अमेयगङ्गासिकतातिवृत्तैर्गुणैरचिन्त्यैरसमैरुपेतः ।
( र्ग्व् 86 ) सवासनोन्मूलितसर्वदोषस्तथागतानाममलः स धातुः
विचित्रसद्धर्ममयूखविग्रहैर्जगद्विमोक्षार्थसमाहृतोद्यमः ।
क्रियासु चिन्तामणिराजरत्नवद्विचित्रभावो न च तत्स्वभववान्
लोकेषु यच्छान्तिपथावतारप्रपाचनाव्याकरणे निदानम् ।
बिम्बं तदप्यत्र सदावरुद्धमाकाशधाताविव रूपधातुः
एषां खलु चतुर्णां श्लोकानां पिण्डार्थो विंशतिश्लोकैर्वेदितव्यः ।
यत्तद्बुद्धत्वमित्युक्तं सर्वज्ञत्वं स्वयंभुवाम् ।
निर्वृतिः परमाचिन्त्यप्राप्तिः प्रत्यात्मवेदिता
तत्प्रभेदस्त्रिभिः कायैर्वृत्तिः स्वाभाविकादिभिः ।
गाम्भीर्यैदार्यमाहात्म्यगुणधर्मप्रभावितैः
तत्र स्वभाविकः कायो बुद्धानां पञ्चलक्षणः ।
पञ्चाकारगुणोपेतो वेदितव्यः समासतः
असंस्कृतमसंभिन्नमन्तद्वयविवर्जितम् ।
क्लेशज्ञेयसमापत्तित्रयावरणनिःसृतम्
( र्ग्व् 87 ) वैमल्यादविकल्पत्वाद्योगिनां गोचरत्वतः ।
प्रभास्वरं विशुद्धं च धर्मधातोः स्वभावतः
अप्रमेयैरसंख्येयैरचिन्त्यैरसमैर्गुणैः ।
विशुद्धिपारमीप्राप्तैर्युक्तं स्वाभाविकं वपुः
उदारत्वादगण्यत्वात् तर्कस्यागोचरत्वतः ।
कैवल्याद्वासनोच्छित्तेरप्रमेयादयः क्रमात्
विचित्रधर्मसंभोगरूपधर्मावभासतः ।
करुणाशुद्धिनिष्यन्दसत्त्वार्थास्रंसनत्वतः
निर्विकल्पं निराभोगं यथाभिप्रायपूरितः ।
चिन्तामणिप्रभावर्द्धेः सांभोगस्य व्यवस्थितिः
देशने दर्शने कृत्यास्रंसने ऽनभिसंस्कृतौ ।
अतत्स्वभावाख्याने च चित्रतोक्ता च पञ्चधा
रङ्गप्रत्ययवैचित्र्यादतद्भावो यथा मणेः ।
सत्त्वप्रत्ययवैचित्र्यादतद्भावस्तथा विभोः
महाकरुणया कृत्स्नं लोकमालोक्य लोकवित् ।
धर्मकायादविरलं निर्माणैश्चित्ररूपिभिः
जातकान्युपपत्तिं च तुषितेषु च्युतिं ततः ।
गर्भा[व]क्रमणं जन्म शिल्पस्थानानि कौशलम्
( र्ग्व् 88 ) अन्तःपुररतिक्रीडां नैष्क्रम्यं दुःखचारिकाम् ।
बोधिमण्डोपसंक्रान्तिं मारसैन्यप्रमर्दनम्
संबोधिं धर्मचक्रं च निर्वाणाधिगमक्रियाम् ।
क्षेत्रेष्वपरिशुद्धेषु दर्शयत्या भवस्थिते
अनित्यदुःखनैरात्म्यशान्तिशब्दैरुपायवित् ।
उद्वेज्य त्रिभवात् सत्त्वान् प्रतारयति निर्वृत्तौ
शान्तिमार्गावतीर्णाश्च प्राप्यनिर्वाणसंज्ञिनः ।
सद्धर्मपुण्डरीकादिधर्मतत्त्वप्रकाशनैः
पूर्वग्रहान्निवर्त्यैतान् प्रज्ञोपायपरिग्रहात् ।
परिपाच्योत्तमे याने व्याकरोत्यग्रबोधये
सौक्ष्म्यात् प्रभावसंपत्तेर्बालसार्थातिवाहनात् ।
गाम्भीर्यौ दार्यमाहत्म्यमेषु ज्ञेयं यथाक्रमम्
प्रथमो धर्मकायो ऽत्र रूपकायौ तु पश्चिमौ ।
व्योम्नि रूपगतस्येव प्रथमे ऽन्त्यस्य वर्तनम्
तस्यैव कायत्रयस्य जगद्धितसुखाधानवृत्तौ नित्यार्थमारभ्य श्लोकः ।
हेत्वानन्त्यात् सत्त्वधात्वक्षयत्वात् कारुण्यद्धिर्ज्ञानसंपत्तियोगात् ।
( र्ग्व् 89 ) धर्मैश्वर्यान्मृत्युमारावभङ्गान् नैःस्वा भाव्याच्छाश्वतो लोकनाथः
अस्य पिण्डार्थः षड्भिः श्लोकैर्वेदितव्यः ।
कायजीवितभोगानां त्यागैः सद्धर्मसंग्रहात् ।
सर्वसत्त्वहितायादिप्रतिज्ञोत्तरणत्वतः
बुद्धत्वे सुविशुद्धायाः करुणायाः प्रवृत्तितः ।
ऋद्धिपादप्रकाशाच्च तैरवस्थानशक्तितः
ज्ञानेन भवनिर्वाणद्वयग्रहविमुक्तितः ।
सदाचिन्त्यसमाधानसुखसंपत्तियोगतः
लोके विचरतो लोकधर्मैरनुपलेपतः ।
शमामृतपदप्राप्तौ मृत्युमाराप्रचारतः
असंस्कृतस्वभावस्य मुनेरादिप्रशान्तितः ।
नित्यमशरणानां च शरणाभ्युपपत्तितः
सप्तभिः कारणैराद्यैर्नित्यता रूपकायतः ।
पश्चिमैश्च त्रिभिः शास्तुर्नित्यता धर्मकायतः
स चायमाश्रयपरिवृत्तिप्रभावितस्तथागतानां प्राप्तिनयो ऽचिन्त्यनयेनानुगन्तव्य इति ।
अचिन्त्यार्थमारभ्य श्लोकः ।
अवाक्यवत्त्वात् परमार्थसंग्रहादतर्कभूमेरुपमनिवृत्तितः ।
( र्ग्व् 90 ) निरुत्तरत्वाद्भवशान्त्यनुद्ग्रहादचिन्त्य आर्यैरपि बुद्धगोचरः
अस्य पिण्डार्थश्चतुर्भिः श्लोकैर्वेदितव्यः ।
अचिन्त्यो ऽनभिलाप्यत्वादलाप्यः परमार्थतः ।
परमार्थो ऽप्रतवर्यत्वादतर्क्यो व्यनुमेयतः
व्यनुमेयो ऽनुत्तरत्वादानुत्तर्यमनुद्ग्रहात् ।
अनुद्ग्रहो ऽप्रतिष्ठानादगुणदोषाविकल्पनात्
पञ्चभिः कारणैः सौक्ष्म्यादिचिन्त्यो धर्मकायतः ।
षष्ठेनातत्त्वभावित्वादचिन्त्यो रूपकायतः
अनुत्तरज्ञानमहाकृपादिभिर्गुणैरचिन्त्या गुणपारगा जिनाः ।
अतः क्रमो ऽन्त्यो ऽयमपि स्वयंभुवो ऽभिषेकलब्धा न महर्षयो विदुरिति
मूल पाठ: Ratnagotravibhāga · Edition: E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0