Rasaratnasamuccaya · अध्याय 5
अथ पञ्चमो ऽध्यायः ।
[अथ लोहानि]
अथ हेमगुणाः -
शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर्लोहे लुह इति मतः सो ऽपि कर्षार्थवाची
प्राकृतं सहजं वह्निसंभूतं स्वनिसंभवम् ।
रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम्
आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यं भूतावेशप्रशान्तिस्मरभरसुखदं सौख्यपुष्टिप्रकाशि ।
गाङ्गेयं चाथ रूप्यं गदहरमजराकारि मेहापहारि क्षीणानां पुष्टिकारि स्फुटमतिकरणं वीर्यवृद्धिप्रकारि
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ।
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम्
ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा ।
तन्मेरुरूपतां यातं सुवर्णं सहजं हि तत्
विसृष्टमग्निना शैव्.अम् तेजः पीतं सुदुःसहम् ।
अभूत्सर्वं समुद्दिष्टं सुवर्णं वह्निसंभवम्
एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत्कुर्याच्छरीरमजरामरम्
तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत्
रसेन्द्रवेधसंभूतं तद्वेधजमुदाह्र्तम् ।
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत्
स्निग्धं मेध्यं विषगदहरं बृंहनं वृष्यमग्र्यम् ।
यक्षोन्मादप्रशमनपरं देहरोगप्रमाथि ।
मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं ।
रुच्यं दीपि प्रशामितरुजं खादुपाकं सुवर्णम्
सौख्यं वीर्यं बलं हन्ति रोगवर्गं करोति च ।
अशुद्धं न सृतम् स्वर्णं तस्माच्छुद्दं समाचरेत्
कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसं स्थं प्रहरार्धमानं ध्मानेन तत्स्यान्ननु वर्णपुर्णम्
लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः
अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
लुङ्गाबुभस्मसूतेन म्रियते दशभिः पुटैः
द्रुते विनिक्षिपेत्स्वर्णे लोहमानं मृतं रसम् ।
विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम्
जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ।
पत्रे लिप्त्वा पुटैः पच्यादष्टभिर्म्रियते ध्रुवम्
मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः ।
प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम्
चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः ।
भावितं सदृशं हेम करोति जलवद्द्रुतम्
एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं
लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुचिम् ।
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं
पथ्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत्
[क्षेपकः] बलं च वीर्यं हरते नराणां रोगव्रजं कोपयतीव काये ।
असौख्यकारं च सदैव हेमापक्वं सदोषं मरणं करोति
अथ रजतम् -
सहजं खनिसंजातं कृत्रिमं त्रिविधं मतम् ।
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम्
कैलासाद्यद्रिसंभूतं सहजं रजतं भवेत् ।
तत्स्पृष्ठं हि सकृद्व्याधिनाशनं देहिनां भवेत्
मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0