Rasaratnasamuccaya · अध्याय 4
अथ चतुर्थो ऽध्यायः ।
[अथ रत्नानि]
अथ मणयः -
मणयो ऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ।
वैक्रान्तः सूर्यकान्तश् च हीरकं मौक्तिकं मणिः
चन्द्रकान्तस्तथा चैव राजावर्तश् च सप्तमः ।
गरुडोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी
पुष्परागं महानीलं पद्मरागं प्रवालकम् ।
वैदूर्यं च तथा नीलमेते च मणयो मताः ।
यत्नतः संग्रहीतव्या रसबन्धस्य कारणात्
पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः ।
पुष्परागः सवज्राख्यः पञ्चरत्नवराः स्मृताः
माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम्
ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै
रसे रसायने दाने धारणे देवतार्चने ।
सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये
माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।
कुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम्
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते
नीलं गङ्गाम्बुसंभूतं नीलगर्भारुणच्छवि ।
पूर्वमाणिक्यवच्छ्रेष्ठमाणिक्यं नीलगन्धि तत्
रन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् ।
चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् ।
भूतवेतालपापघ्नं कर्मजव्याधिनाशनम्
अथ मौक्तिकम् -
ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम्
मुक्ताफलं लघु हिमं मधुरं च कान्ति- दृष्ट्यग्निपुष्टिकरणं विषहारि भेदि ।
वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर् दीप्ता च पक्तिरुजमाशु हरेदवश्यम्
रूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् ।
अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत्
कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम्
अथ प्रवालम् -
पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् ।
स्निग्धमव्रणकं स्थूलं प्रवालं सप्तदा शुभम्
पाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् ।
निर्भारं शुल्बवर्णं च प्रवालं नेष्यते ऽष्टधा
क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगनुत्
अथ तार्क्ष्यम् -
हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुशम् ।
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम्
कपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् ।
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते
ज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् ।
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम्
अथ पुष्परागः -
पुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु ।
कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा
निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।
कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत्
पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् ।
दाहकुष्ठास्रशमनं दीपनं पाचनं लघु
अथ वज्रम् -
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः
अष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते
तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् ।
वर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम्
स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित्
श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम्
उत्तमोत्तमवर्णं हि नीचवर्णफलप्रदम् ।
न्यायो ऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि
आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनम् सकलामयघ्नम् ।
सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम्
गौरत्रासश् च बिन्दुश् च रेखा च जलगर्भता ।
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः
क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ।
कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा
एकयामावधि स्विन्नं वज्रं शुद्ध्यति निश्चितम् ।
वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम्
सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् ।
पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम्
ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् ।
अन्यैरुक्तः शतं वारान्कर्तव्यो ऽयं विधिक्रमः
कुलत्थक्वात्थसंयुक्तलकुचद्रवपिष्टया ।
शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च
अष्टवारं पुटेत्सम्यग्विशुष्कैश् च वनोत्पलैः ।
शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत्
सत्यवाक्सोमसेनानीरेतद्वज्रस्य मारणम् ।
दृष्टप्रत्ययसंयुक्तमुक्तवान्रसकौतुकी
विलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम्
कासमर्दरसापूर्णे लोहपात्रे निवेशितम् ।
सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमो ऽयं परिकीर्तितः ।
नीलज्योतिर्लताकन्दे धृष्टं घर्मे विशोषितम्
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ।
मदनस्य फलोद्भूतरसेन क्षोणिनागकैः
कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ।
वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु
तद्वज्रं चूर्णयित्वाथ किंचिट्टङ्कणसंयुतम् ।
खरभूनागसत्त्वेन विंशेनावर्तते ध्रुवम् ।
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु
त्रिगुणेन रसेनैव संमर्द्य गुटिकीकृतम् ।
मुखे घृतं करोत्याशु चलद्दन्तविबन्धनम्
त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् ।
पादांषं खलु ताप्यकं वसुगुणं वैक्रान्तकं षाड्गुणं भोगो ऽप्युक्तरसै रसो ऽयमुदितः षाड्गुण्यसंसिद्धये
अथ नीलम् -
जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ।
श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम्
काऋष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम्
एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।
मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम्
कोमलं विहितं रूक्सं निर्भारं रक्तगन्धि च ।
चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा
श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।
विषमज्वरदुर्नामपापघ्नं नीलमीरितम्
अथ गोमेदः -
गोमेदः समरागत्वाद् गोमेदं रत्नम् उच्यते ।
सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।
निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा
विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम्
गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम्
अथ वैदूर्यम् -
वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम्
श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।
रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते
वैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।
पित्तप्रधानरोगघ्नं दीपनं मलमोचनम्
अथ रत्नशुद्धिः -
शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा
पुष्परागं च संधानैः कुलत्थक्वाथसंपुतैः ।
तन्दुलीयजलैर्वज्रं नीलं नीलीरसेन च
रोचनाभिश् च गोमेदं वैदूर्यं त्रिफलाजलैः
अथ रत्नभस्मक्रमः -
लकुचद्रावसंपिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्ते ऽष्टपुटैः खलु
रामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।
मांसद्रवो ऽम्लवेतश् च चूलिकालवणं तथा
स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम्
दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम्
गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे
अहोरात्रत्रयं पावत्स्वेदयेत्तीव्रवह्निना ।
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत्
रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ।
मुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम्
जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ।
सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत्
वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् ।
अम्लभाण्डगतं स्वेद्यं सप्ताहाद्द्रवताम् व्रजेत्
अथ वैक्रान्तम् -
श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ
केतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका ।
इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत्
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ।
लोहाष्टके तथा वज्रवापनात्स्वेदनाद्द्रुतिः
जायते नात्र संदेहो योगस्यास्य प्रभावतः ।
कुरुते योगराजो ऽयं रत्नानां द्रावणं परम्
कुसुम्भतैलमध्येतु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत्
मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0