Rasaratnasamuccaya · अध्याय 3
अथ तृतीयो ऽध्यायः
[अथोपरसाः साधारणरसाश्च]
अथ गन्धकः -
गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।
कङ्कुष्टं चेत्युपरसाश्चाष्टौ पारदकर्मणि
पार्वत्युवाच -
गन्धकस्य तु माहात्म्यं तद्गुह्यं वद मे प्रभो ।
ईश्वर उवाच -
श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः
विद्याधरादिमुख्याभिरङ्गनाभिश् च योगिनाम् ।
सिद्धाङ्गनाभिः श्रेष्ठाभिस्तथैवाप्सरसां गणैः
देवाङ्गनाभी रम्याभिः क्रीडिताभिर्मनोहरैः ।
गीतैर्नृत्यैर्विचित्रैश् च वाद्यैर्नानाविधैस्तथा
एवं संक्रीडमानायाः प्राभवत्प्रसृतं रजः ।
तद्रजो ऽतीव सुश्रोणि सुगन्धि सुमनोहरम्
रजसश्चातिबाहुल्याद्वासस्ते रक्ततां ययौ ।
तत्र त्यक्त्वा तु तद्वस्त्रं सुस्नाता क्षीरसागरे
वृता देवाङ्गनाभिस्त्वं कैलासं पुनरागता ।
ऊर्मिभिस्तद्रजोवस्त्रं नीतं मध्ये पयोनिधेः
एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम्
निजगन्धेन तान्सर्वान्हर्षयन्सर्वदानवान् ।
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम्
रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति
इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मधमः पीतवर्णः स्याच्छुक्लवर्णो ऽधमः प्रिये
ग्रन्थान्तरे चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
श्वेतो ऽत्र खटिकाप्रोक्तो लेपने लोहमारणे
तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् ।
शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने
रक्तश् च शुकतुण्डाख्यो धातुवादविधौ वरः ।
दुर्लभः कृष्णवर्णश् च स जरामृत्युनाशनः
गन्धाश्मातिरसायनः सुमधुरः पाके कटूष्णो मतः कण्डूकुष्ठविसर्पदद्रुदलनो दीप्तानलः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्यात्मकः सूतजित्
बलिना सेवितः पूर्वं प्रभूतबलहेतवे
वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ।
वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः
गन्धकत्वं च संप्राप्ता गन्धो ऽभूत्सविषः स्मृतः ।
तस्माद्बलिवसेत्युक्तो गन्धको ऽतिमनोहरः
पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ।
गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति
एवं संशोधितः सो ऽयं पाषाणानंबरा त्यजेत् ।
घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च
इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् ।
अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ।
तद्रसैः सप्तधा भिन्नो गन्धकः परिशुध्यति
स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ।
गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति
छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकं ।
ज्वालयेत्खर्परस्योर्ध्वं वनच्छाणैस्तथोपलैः ।
दुग्धे निपतितो गन्धो गलितः परिशुध्यति
इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृघ्राक्षितुल्यं कुरुते ऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः
कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्ट्य तत्
सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
घृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम्
द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्लयास्त्रिबिन्दुकाम्
वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् ।
अङ्गुल्याथ सपत्रां तां द्रुतिं सूतं च भक्षयेत्
करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।
कासं श्वासं च शूलार्ति ग्रहणीमतिदुर्धराम्
आमं विनाशयत्याशु लघुत्वं प्रकरोति च ।
घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम्
घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।
हन्ति क्षयमुखान्रोगान्कुष्ठरोगं विशेषतः
क्षाराम्लतैलसौवीरविदाहि द्विदलं तथा ।
शुद्धगन्धकसेवायां त्यजेद्योगयुतेन हि
गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः ।
घृष्टः शम्याकमूलेन पीतश्चाखिलकुष्ठहा
तन्मूलसलिले पिष्ठं लेपयेत्प्रत्यहम् तनौ ।
दृष्टप्रत्यययोगो ऽयं सर्वत्र प्रतिवीर्यवान्
श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ।
द्विनिष्कप्रमितं गन्धं पिष्ट्वा तैलेन संयुतम्
अथापामार्गतोयेन सतैलमरिचेन हि ।
विलिप्य सकलं देहं तिष्ठेद्धर्मे ततः परम्
तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ।
भजेद्रात्रौ तथा वह्निं समुत्थाय तथा प्रगे
महिषीछगण्.अम् लिप्त्वा स्नायाच्छीतेन वारिणा ।
ततो ऽभ्यज्य घृतैर्देहं स्नायादिष्टोष्णवारिणा
अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।
दुर्जया बहुकालीना पामा कण्डुः सुनिश्चितं
गन्धकस्य प्रयोगाणां शतं तन्न प्रकीर्तितम् ।
ग्रन्थविस्तारभीतेन सोमदेवेन भूभुजा
अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेद्धनम्
तद्वर्तिं ज्वलितां दंशे घृतां कुर्यादधोमुखीम् ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत्
शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च
अथ गौरिकम् -
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।
पाषाणगैरिकं प्रोक्तं कठिण्.अम् ताम्रवर्णकम्
अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ।
स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत्
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।
पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः
गैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति ।
गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम्
कैरप्युक्तं पतेत्सत्त्वं क्षाराम्लक्लिन्नगैरिकात् ।
उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम्
अथ कासीसम् -
कासीसं वालुकाद्येकं पुष्पपुर्वमथापरम् ।
क्षाराम्लागरुधूमाभं सोष्णवीर्यं विषापहम्
बालुकापुष्पकासीसं श्वित्रघ्नं केशरञ्जनम्
पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाअम्लमतीव नेत्र्यम् ।
विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च
सकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ।
तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् ।
कासीसं शुद्धिमाप्नोति पित्तैश् च रजसा स्त्रियः
बलिना हतकासीसं क्रान्तं कासीसमारितम् ।
उभयं समभागं हि त्रिफलावेल्लसंयुतम्
विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।
सेवितं हन्ति वेगेन श्वित्रं पाण्डुक्षयामयम्
गुल्मप्लीहगदं शूलं मूलरोगं विशेषतः ।
रसायनविधानेन सेवितं वत्सरावधि
आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।
पलितं वलिभिः सार्धं विनाशयति निश्चितम्
अथ तुवरी -
सौराष्ट्र्य संभूता सा तुवरी मता ।
वस्त्रेषु लिप्यते यासौ मञ्जिष्टा रागबन्धिनी
फटकी फुल्लिका चेति द्वितीया परिकीर्तिता ।
ईषत्पीता गुरुः स्निग्धा पीतिका विषनाशनी
व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः
निर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता ।
सा फुल्लतुवरी प्रोक्ता लेपात्ताम्रं चरेदयः
काङ्क्षी कषाया कटुकाम्लकण्थ्या केश्या व्रणघ्नी विषनाशनी च ।
श्वित्रापहा नेत्रहिता त्रिदोष- शान्तिप्रदा पारदजारणी च
तुवरी काञ्जिके क्षिप्त्वा त्रिदिनाच्छुद्धिमृच्छति ।
क्षाराम्लैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम्
गोपित्तेन शतं वरान्सौराष्ट्रां भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम्
अथ तालकः -
हरितालं द्विधा प्रोक्तं प्रत्याद्यं पिण्डसंज्ञकम् ।
स्वर्णवर्ण गुरु स्निग्धं तनुपत्रं च भासुरम्
तत्पत्रतालकं प्रोक्तं बहुपत्रं रसायनम् ।
निष्पत्रं पिण्डसदृशम् स्वल्पसत्त्वं तथा गुरु ।
स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम्
श्लेष्मरक्तविषवातभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः ।
स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते
स्निग्धं कूष्माण्डतोये वा तिलक्षारजले ऽपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति
अशुद्धं तालमायुघ्नं कफमारुतमेहकृत् ।
तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत्
तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्ततः
वस्त्रे चतुर्गुणे बद्ध्वा दोलायन्त्रे दिनं पचेत्
सचूर्णेनारनालेन दिनं कूष्माण्डजे रसे ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात्
मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रे ऽथ माहिषे
उपलैर्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत्
कुलित्थक्वाथसौभाग्यमहिष्याज्यमधुप्लुतम् ।
स्थाल्यां क्षिप्त्वा विदध्याच्च त्वम्लेन च्छिद्रयोगिना
सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् ।
एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः
यामान्ते छिद्रमुद्धाट्य दृष्टे धूमे च पाण्डुरे ।
शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत्
सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।
ग्रन्थविस्तारभीत्यातो लिखिता न मया खलु
पलालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातेलै मिश्रयित्वा ततः पचेत्
अनावृतप्रदेशे च सप्तयामावधि धुवम् ।
स्वाङ्गशीतमधस्थं च सत्त्वं श्वेतं समाहरेत्
छागलस्याथबालस्य बलिना च समन्वितम् ।
तालकं दुवसद्वंद्वं मर्दयित्वातियत्नतः
युक्तं द्रावणवर्गेण काचकुप्यां विनिक्षिपेत् ।
त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे
ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।
प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधि
कुपिकण्ठस्थितं शीतं शुद्धं सत्त्वं समाहरेत् ।
पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे
बलिनालिप्य यत्नेन त्रिवारं परिशोष्य च ।
द्राविते त्रिफले ताम्रे क्षिपेत्तालकपोटलीम्
भस्मना छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।
मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने
अथ मनःशिला -
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ।
खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते
श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।
तेजस्विनी च निर्गौरा ताम्राभा कणवीरका
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।
उत्तरोक्तगुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता
मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।
सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च
अश्मरीं मूत्रकृच्छ्रं च अशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर्वापि विशुद्ध्यति मनःशिला
जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिलाम् ।
दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वरोगेषु योजयेत्
अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला
भूनागधौतसौभाग्यमदनैश् च विमर्दितैः ।
कारवल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत्
शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् ।
कोकिलाद्वयमात्रं हि ध्मानात्सत्त्वं त्यजत्यसौ
अथाञ्जनानि -
सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।
स्रोतोञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च
नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते ।
सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम्
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ।
रसाञ्जनं च पीताभं विषवक्त्रगदापहम्
श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनं ।
स्रोतोञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम्
नेत्र्यं हिध्माविषच्छर्दिकफपित्तास्ररोगनुत्
पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।
अतिदुर्धरहिध्माघ्नं विषज्वरगदापहं
नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।
रसायनं सुवर्णघ्नं लोहमार्दवकारकं
अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः ।
मनोह्वासत्त्ववत्सत्त्वमञ्जनानां समाहरेत्
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टं तु गौरिकच्छायं स्रोतोजं लक्षयेद्बुधः
गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम्
सूर्यावर्तादियोगेन शुद्धिमेति रसाञ्जनम् ।
राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोञ्जनादपि
अथ कङ्कुष्ठम् -
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।
तत्रैकं नालिकाख्यं हि तदन्यद्रेणुकं मतम्
पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।
श्यामपीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम्
केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः ।
वर्चश् च श्यामपीताभं रेचनं परिकथ्यते
कतिचित्तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।
वदन्ति श्वेतपीताभं तदतीव विरेचनम्
रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम् ।
कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ।
व्रणोदावर्तशूलार्तिगुल्मप्लीहगुदार्तिनुत्
सूर्यावर्तककदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश् च वज्रकन्दो निरङ्कणा काकमाची च
आसामेकरसेन तु लवणक्षाराम्लभावितं बहुशः ।
शुद्ध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि
कङ्कुष्ठं शुद्धिमायाति त्रिधा शुण्ठ्यम्बुभावितम् ।
सत्त्वाकर्षो ऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत्
भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ।
नाशयेदामपूर्तिं च विरेच्य क्षणमात्रतः
भक्षितः सह ताम्बूलैर्विरिच्यासून्विनाशयेत्
बर्बुरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।
कङ्कुष्ठं विषनाशाय भूयो भूयः पिबेन्नरः
इत्युपरसाः
अथ साधारणरसाः -
कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः ।
कपर्दो वह्निजारश् च गिरिसिन्दूरहिङ्गुलौ
मोदारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः ।
रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः
अथ कम्पिल्लः -
इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्यो ऽतिरेचनः ।
सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः
पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिकृमिगुल्मवैरी ।
मूलामशोफज्वरशूलहारी कम्पिल्लको रेच्यगदापहारी
अथ गौरीपाषाणः -
गौरीपाषाणकः पीतो विकटो हतचूर्णकः ।
स्फटिकाभश् च शुङ्खाभो हरिद्राभस्त्रयः स्मृताः
पूर्वं पूर्वं गुणैः श्रेष्ठः कारवल्लीफले क्षिपेत् ।
स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः
तालवद्ग्राहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ।
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत्
अथ नवसारः -
करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारो ऽसौ नवसारः स्याच्चूलिकालवणाभिधः
इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत्
गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।
विडाख्यं च त्रिदोषघ्नं चूलिकालवणम् मतम्
अथ वराटकाः -
पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता
परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।
कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा
रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते
तदन्ये तु वराटाः स्युर्गुरवः श्लेष्मपित्तलाः ।
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः
अथाग्निजारः -
समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सो ऽग्निजार इति स्मृतः
अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ।
तदब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते
अथ गिरिसिन्दूरम् -
महागिरिषु चाल्पीयः पाषाणान्तःस्थितो रसः ।
शुष्कशोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया
त्रिदोषशमनम् भेदि रसबन्धनमग्रिमम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम्
अथ हिङ्गुलः -हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ।
प्रथमो ऽल्पगुणस्तत्र चर्मारः स निगद्यते
श्वेतरेषः प्रवालाभो हंसपाकः स ईरितः ।
हिङ्गुलः सर्वदोषघ्नो दीपनो ऽतिरसायनः
सर्वरोगहरो वृष्यो जारणायातिशस्यते ।
एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः
सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु
किमत्रचित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशो ऽम्लवर्गैः ।
एवं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम्
दरदः पातनायन्त्रे पातितश् च जलाश्रये ।
तत्सत्त्वं सूतसंकाशं पातयेन्नात्र संशयः
अथ मृद्दारशृङ्गकम् -सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम्
सीससत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम्
साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना ।
त्रिरात्रं भाविताः शुष्का भवेयुर्दोष वर्जिताः
यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।
ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम्
इति करवालभैरवः ।
अथ राजावर्तः -
राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः ।
गुरुत्वमसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।
दीपनः पाचनो वृष्यो राजावर्तो रसायनः
निम्बुद्रवैः सगोमूत्रैः सक्षरैः स्वेदिताः खळु ।
द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः
शिरीषपुष्पार्द्ररसै राजावर्तं विशोधयेत्
लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ।
पुटनात्सप्तवारेण राजावर्तो मृतो भवेत्
राजावर्तस्य चूर्णं तु कुनटीघृतमिश्रितम् ।
विपचेदायसे पात्रे महिषीक्षिरसंयुतं
सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत् ।
ध्मापितं खदिराङ्गारैः सत्त्वं मुञ्चति शोभनं
मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0