भाषा

ENहिગુ
ग्रंथ पाठ

Rasaratnasamuccaya · अध्याय 2

2.1

अथ द्वितीयो ऽध्यायः
[महारसाः]
अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद्रसान्

2.2

[देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् इति क्षेपकः]

2.3

गौरीतेजः परमममृतं वातपित्तक्षयघ्नं प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् ।
बल्यं स्निग्धं रुचिदमकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद्व्योम सूतेन्द्रबन्धि

2.4

राजहस्तादधस्ताद्यत्समानीतं घनं खनेः ।
भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम्

2.5

पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम्

2.6

पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।
तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम्

2.7

नागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् ।
तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः

2.8

उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।
तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतो ऽन्यथा

2.9

वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।
देहलोहकरं तच्च सर्वरोगहरं परम्

2.10

श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।
श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि ।
पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि

2.11

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।
तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम्

2.12

स्निग्धं पृथुदलं वर्णसंयुक्तं भारतो ऽधिकम् ।
सुखनिर्मोच्यपत्रं च तदभ्रं शस्तमीरितम्

2.13

सचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः ।
ग्रसितश् च नियोज्यो ऽसौ लोहे चैव रसायने

2.14

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्गदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत्

2.15

यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् ।
तैर्दृष्टं कालकूटाख्यं विषं जीवनहेतवे

2.16

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।
अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम्

2.17

प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जके ऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले

2.18

त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ।
ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः

2.19

चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे ।
पुटेदेवं हि षड्वारं पौनर्नवरसैः सह

2.20

कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।
अर्धेभाख्यपुटैस्तद्वत्सप्तवारं पुटेत्खलु

2.21

एवं वासारसेनापि तण्डुलीयरसेन च ।
प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः

2.22

एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत्

2.23

चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते

2.24

धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटितं दशवारेण म्रियते नात्र संशयः

2.25

तद्वन्मुस्तारसेनापि तन्दुलीयरसेन च ।
पीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम्

2.26

पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते ।
क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः

2.27

वटमूलत्वचः क्वाथैस्ताम्बूलीपत्रसारतः ।
वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकटिल्लया

2.28

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।
भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम्

2.29

पादांशटङ्कणोपेतं मुसलीरसमर्दितम् ।
रुन्ध्यात्कोष्ट्यां दृढं ध्मातं सत्त्वरूपं भवेद् धनम्

2.30

कासमर्दघनध्वानवासानां च पुनर्भुवः ।
मत्स्याक्ष्याः काण्डवल्ल्याश् च हंसपाद्या रसैः पृथक्

2.31

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्धर्मयोगतः ।
पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश् च टङ्कणम्

2.32

प्रत्येकमष्टमांशेन दत्वा दत्वा विमर्दयेत् ।
मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः

2.33

पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च ।
क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतो ऽधिकान्

2.34

पयो दधि घृतं मूत्रं सविट्कं चाजमुच्यते ।
अधःपातनकोष्ट्यां हि ध्मात्वा सत्त्वं निपातयेत्

2.35

कोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान्हरेत् ।
तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च

2.36

गोलान्विधाय संशोष्य घर्मे भूयो ऽपि पूर्ववत् ।
भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत्

2.37

अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ।
शोधनीयगणोपेत्तं मूषामध्ये निरुध्य च

2.38

सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद्धनम् ।
इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने

2.39

मधुतैलवसाज्येषु द्रावितं परिवापितम् ।
मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम्

2.40

पट्टचुर्णं विधायाथ गोघृतेन परिप्लुतम् ।
भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे

2.41

अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् ।
तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत्

2.42

ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ।
पुटेद्विंशतिवारेण वाराहेण पुटेन हि

2.43

पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ।
त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः

2.44

भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ।
सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम्

2.45

एवं चेच्छतवाराणि पुटपाकेन साधितम् ।
गुणवज्जायते ऽत्यर्थं परं पाचनदीपनम्

2.46

गन्धर्वपत्रतोयेन गुडेन सह भावितम् ।
अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम्

2.47

क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया ।
तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम्

2.48

सत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके ।
निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया

2.49

संप्रताप्य घनस्थूलकणान्क्षिप्त्वाथ काञ्जिके ।
तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत्

2.50

गोघृतेन च तच्चूर्णं भर्जयेत्पूर्ववस्त्रिधा ।
धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा

2.51

भर्जेन भर्जेन कार्यं शिलापट्टेन पषेणम् ।
ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः

2.52

प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ।
एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम्

2.53

यथेष्टं विनियोक्तव्यं जारणे च रसायने ।
द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् ।
विना शंभोः प्रसादेन न सिध्यन्ति कदाचन

2.54

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् ।
जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान्

2.55

अथ वैक्रान्तः -
अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश् च युक्तो वैक्रान्त उच्यते

2.56

श्वेतो रक्तश् च पीतश् च नीलः पारापतच्छविः ।
श्यामलः कृष्णवर्णश् च कर्बुरश्चाष्टधा हि सः

2.57

आयुःप्रदश् च बलवर्णकरो ऽतिवृष्यः ।
प्रज्ञाप्रदः सकलदोषगदापहारी ।
दीप्ताग्निकृत्पविसमानगुणस्तरस्वी ।
वैक्रान्तकः खलु वपुर्बललोहकारी

2.58

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा

2.59

[ग्रन्थान्तरे दैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः] ।
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत्

2.60

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।
तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम्

2.61

विन्ध्यस्य दक्षिणे वास्ति ह्युत्तरे वास्ति सर्वतः ।
विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः

2.62

श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।
मयूरकण्ठसदृशश्चान्यो मरकतप्रभः

2.63

देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् ।
सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम्

2.64

शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा

2.65

अथाहरणविधिः -
यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् ।
विनायकं च संपूज्य गृह्णीयाच्छुद्धमानसः

2.66

वैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।
विषघ्नो रसराजश् च ज्वरकुष्ठक्ष्यप्रणुत्

2.67

वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्वा ।
अम्लेषु मूत्रेषु कुलत्थरम्भानीरे ऽथवा कोद्रववारिपक्वाः

2.68

कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः

2.69

वैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् ।
पौनःपुन्येन वा कुर्याद्द्रवं दत्वा पुटं त्वनु

2.70

भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ।
मोक्षमोरटपालाशक्षारगोमूत्रभावितम्

2.71

वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् ।
तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम्

2.72

नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं ।
पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना

2.73

तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ।
सत्त्वपातनयोगेन मर्दितश् च वटीकृतः ।
मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत्

2.74

भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः ।
यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीमुरःक्षतमुखान्रोगाञ्जय्येद्देहकृत्

2.75

सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं ।
मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम्

2.76

क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् ।
निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः ।
त्रिःसप्तदिवसैर्न्.र्णां गङ्गाम्भ इव पातकम्

2.77

अथ माक्षिकम् -
सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।
ताप्यां किरातचीनेषु यवनेषु च निर्मितः

2.78

ताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते ।
मधुरः काञ्चनाभासः साम्लो रजतसंनिभः

2.79

किंचित्कषायमधुरः शीतः पाके कटुर्लघुः ।
तत्सेवनाज्जराव्याधिविषैर्न परिभूयते

2.80

माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभं

2.81

तपतीतीरसंभूतं पञ्चवर्णसुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताराख्यो ऽल्पगुणात्मकः

2.82

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलनश् च गुणोत्तरः सर्वरसायनाग्र्यः

2.83

एरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकं ।
सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम्

2.84

तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ।
मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम्

2.85

पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु ।
एरण्डस्नेहगव्याजैर्मातुलुङ्गरसेन वा

2.86

खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् ।
एवं मृतं रसे योज्यं रसायनविधावपि

2.87

त्रिंशांशनागसंयुक्तं क्षारैरम्लैश् च वर्तितम् ।
ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम्

2.88

सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।
माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम्

2.89

क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः

2.90

मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु

2.91

गुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् ।
ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम्

2.92

माक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय ।
संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य

2.93

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।
स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम्

2.94

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव ।
दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्यो ऽस्ति सुधारसो ऽपि

2.95

एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्ककणम् ।
मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत्

2.96

अथ विमलः -
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते

2.97

वर्तुलः कोणसंयुक्तः स्निग्धश् च फलकान्वितः ।
मरुत्पित्तहरो वृष्यो विमलो ऽतिरसायनः

2.98

पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः

2.99

आटरूषजले स्विन्नो विमलो विमलो भवेत् ।
जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसे ऽथवा

2.100

आयाति शुद्धिं विमलो धातवश् च यथा परे ।
गन्धाश्मलकुचाम्लैश् च म्रियते दशभिः पुटैः

2.101

सटङ्कलकुचद्रावैर्मेषशृङ्ग्याश् च भस्मना ।
पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च

2.102

षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभह् ।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः

2.103

विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः

2.104

मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् ।
सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः

2.105

तत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् ।
विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं
शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु ।
तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं

2.107

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।
निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः

2.108

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः ।
मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान्

2.109

इति विमलः ॥
अथ शिलाधातुः -
शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः

2.110

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः

2.111

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ।
स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः

2.112

सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ।
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु

2.113

शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् ।
ताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु

2.114

शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ।
वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् ।
सलिले ऽथ विलीनं च तच्छुद्धं हि शिलाजतु

2.115

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् ।
गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम्

2.116

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया

2.117

क्षाराम्लगोजलैर्धौतं शुध्यत्येव शिलाजतु ।
शिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः

2.118

लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ।
क्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः

2.119

स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति ।
शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च

2.120

पुटितं हि शिलाधातु म्रियते ऽष्टगिरिण्डकैः

2.121

भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् ।
पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये

2.122

सेवेत यदि षण्मासं रसायनविधानतः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी

2.123

पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।
क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः

2.124

सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् ।
पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु

2.125

मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।
एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् ।
नैतस्य मारणं सत्त्वपातनं विहितं बुद्धैः

2.126

अथ सस्यकः -
पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ।
विषेणामृतयुक्तेन गिरौ मरकताह्वये

2.127

तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ।
मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते

2.128

द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् ।
हालाहलं सुधायुक्तं सुधाधिकगुणं तथा

2.129

निःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च ।
रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम्

2.130

सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् ।
स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम्

2.131

दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।
गोमहिष्याजमूत्रेषु शुद्ध्यते पञ्चखर्परम्

2.132

लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् ।
निरुध्य मूषिकामध्ये म्रियते कौक्वुटैः पुटैः

2.133

सस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् ।
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत्

2.134

अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् ।
इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम्

2.135

निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।
ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम्

2.136

शुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् ।
नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम्

2.137

सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् ।
तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षनाद्भवेत्

2.138

चराचरं विषं भूतडाकिनीदृग्गतं जयेत् ।
मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका

2.139

रामवत्सोमसेनानीमुद्रिते ऽपि तथाक्षरम् ।
हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः

2.140

तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ।
मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम्

2.141

सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् ।
अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम्

2.142

लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् ।
सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम्

2.143

अथ चपलः -
गौरः श्वेतो ऽरुणः कृष्णश्चपलस्तु चतुर्विधः ।
हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः

2.144

शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।
वण्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः

2.145

चपलो लेखनः स्निग्धो देहलोहकरो मतः ।
रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः

2.146

चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ।
त्रिदोषघ्नो ऽतिवृष्यश् च रसबन्धविधायकः ।
महारसेषु कैश्चिद्धि चपलः परिकीर्तितः

2.147

जम्बीरकर्कोटकशृङ्गवेरैर्विभावनाभिश्चपलस्य शुद्धिः

2.148

शैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर्विषैः ।
पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा

2.149

अथ रसकः -
रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः

2.150

सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ।
रसकः सर्वमेहघ्नः कफपित्तविनाशनः

2.151

नेत्ररोगक्षयघ्नश् च लोहपारदरञ्जनः ।
नागार्जुनेन संदिष्टौ रसश् च रसकावुभौ

2.152

श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् ।
रसश् च रसकश् चोभौ येनाग्निसहनौ कृतौ

2.153

देहलोहमयी सिद्धिर्दासी तस्य न संशयः ।
कटुकालाबुनिर्यास आलोड्य रसकं पचेत्

2.154

शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते ।
खर्परः परिसंतप्तः सप्तवारं निमज्जितः

2.155

बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ।
नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिके ऽथवा

2.156

प्रताप्य मज्जितं सम्यक्खर्परं परिशुद्ध्यति ।
नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम्

2.157

शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा ।
हरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः

2.158

सारुष्करैश् च पादांशैः साम्लैः संमर्द्य खर्परम् ।
लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च

2.159

मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ।
खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि

2.160

तदा संदंशतो मूषां घृत्वा कृत्वा त्वधोमुखीम् ।
शनैरास्फालयेद्भूमौ यथा नालं न भज्यते

2.161

वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ।
एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत्

2.162

साभयाजतुभूनागनिशाधूमजटङ्कणम् ।
मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति

2.163

लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः ।
सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च

2.164

वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।
ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले

2.165

मत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् ।
यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे

2.166

सच्छिद्रं तन्मुखे मल्लं तन्मुखे ऽघोमुखीं क्षिपेत् ।
मूषोपरि शिखित्रांश् च प्रक्षिप्य प्रधमेद्दृढम्

2.167

पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ।
तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे

2.168

मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ।
तद्भस्म मृतकान्तेन समेन सह योजयेत्

2.169

अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ।
कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम्

2.170

निषेवितं निहन्त्याशु मधुमेहमपि धुवम्

2.171

पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ।
रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम्

2.172

योनिरोगानशेषांश् च विषमांश् च ज्वरानपि ।
रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम्

मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc