भाषा

ENहिગુ
ग्रंथ पाठ

Rasaratnasamuccaya · अध्याय 11

11.1

षट् त्रुट्यश् चैकलिक्षा स्यात् षड् लिक्षा यूकम् उच्यते ।
षड्यूकास्तु रजःसंज्ञं कथितं तव सुव्रते

11.2

षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः ।
षट्सिद्धार्थेन देवेशि यवस्त्वेकः प्रकीर्तितः

11.3

षड्यवैर् एकगुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।
षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्तितः ।
माषा द्वादश तोलः स्यादष्टौ तोलाः पलं भवेत्

11.4

त्रुटिः स्यादणुभिः षड्भिस्तैर्लिक्षा षड्भिरीरिता ।
ताभिः षड्भिर्भवेद् यूका षड्यूकास् तद् रजः स्मृतम्

11.5

षड्रजः सर्षपः प्रोक्तस्तैः षड्भिर्यव ईरितः ।
एका गुञ्जा यवैः षड्भिर्निष्पावस्तु द्विगुञ्जकः

11.6

स्याद्गुञ्जात्रितयं वल्लो द्वौ वल्लौ माष उच्यते ।
द्वौ माषौ धरणं ते द्वे शाणनिष्ककलाः स्मृताः

11.7

निष्कद्वयं तु वटकः स च कोल इतीरितः ।
स्यात्कोलत्रितयं तोलः कर्षो निष्कचतुष्टयम्

11.8

उदुम्बरं पाणितलं सुवर्णं कवलग्रहः ।
अक्षं बिडालपदकं शुक्तिः पाणितलद्वयम्

11.9

शुक्तिद्वयं पलं केचिदन्ये शुक्तित्रयं विदुः ।
तदेव कथितं मुष्टिः प्रकुञ्चो बिल्वमित्यपि

11.10

पलद्वयं तु प्रसृतं तद्द्वयं कुडवो ऽञ्जलिः ।
कुडवौ मानिका तौ स्यात्प्रस्थो द्वे मानिके स्मृतः

11.11

प्रस्थद्वयं शुभं तौ द्वौ पात्रकं द्वयमाढकम् ।
तैश् चतुर्भिर् घटोन्माननल्वनार्मणशूर्पकाः

11.12

द्रोणस्य शब्दाः पर्यायाः पलानां शतकं तुला ।
चत्वारिंशत्पलशततुला भारः प्रकीर्तितः

11.13

रसार्णवादिशास्त्राणि निरीक्ष्य कथितं मया ।
रसोपयोगि यत् किंचिद् दिङ्मात्रं तत्प्रदर्शितम्

11.14

अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे

11.15

स्यात्स्वेदनं तदनु मर्दनमूर्छने च उत्थापनं पतनरोधनियामनानि ।
संदीपनं गगनभक्षणमानमत्र संचारणा तदनु गर्भगता द्रुतिश्च

11.16

बाह्या द्रुतिः सूतकजारणा स्याद् ग्रासस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरे योगस् तथाष्टादशधात्र कर्म

11.17

न योज्यो मर्मणि छिन्ने न च क्षाराग्निदग्धयोः

11.18

शुद्धः स मृद्वग्निसहो मूर्छितो व्याधिनाशनः

11.19

निष्कम्पवेगस् तीव्राग्नाव् आयुरारोग्यदो मृतः ।
विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः

11.20

रसे मरणसंतापमूर्छानां हेतवः क्रमात्

11.21

योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ

11.22

औपाधिकाः पुनश्चान्ये कीर्तिताः सप्तकञ्चुकाः ।
भूमिजा गिरिजा वार्जास् ते च द्वे नागवङ्गजौ

11.23

द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः

11.24

भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च ।
वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः

11.25

पर्पटी पाटिनी भेदी द्रावी मलकरी तथा ।
अन्धकारी तथा ध्वाङ्क्षी विज्ञेयाः सप्त कञ्चुकाः

11.26

तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः ।
सर्वोपस्करमादाय रसकर्म समारभेत्

11.27

द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।
अष्टाविंशत् पलान्येव दश पञ्चैकमेव वा

11.28

पलार्धेनैव कर्तव्यः संस्कारः सूतकस्य च ।
सुदिने शुभनक्षत्रे रसशोधनमारभेत्

11.29

त्र्यूषणं लवणासूर्यौ चित्रकार्द्रकमूलकम् ।
क्षिप्त्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम्

11.30

गृहधूमेष्टिकाचूर्णं तथा दधि गुडान्वितम् ।
लवणासुरीसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत्

11.31

षोडशांशं तु तद् द्रव्यं सूतमानान् नियोजयेत् ।
सूतं क्षिप्त्वा समं तेन दिनानि त्रीणि मर्दयेत्

11.32

जीर्णाभ्रकं तथा बीजं जीर्णसूतं तथैव च ।
नैर्मल्यार्थं हि सूतस्य खल्ले धृत्वा विमर्दयेत्

11.33

गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ।
मर्दनाख्यं हि यत्कर्म तत्सूतगुणकृद् भवेत्

11.34

गृहकन्या मलं हन्यात्त्रिफला वह्निनाशिनी ।
चित्रमूलं विषं हन्ति तस्माद् एभिः प्रयत्नतः

11.35

मिश्रितं सूतकं द्रव्यैः सप्तवाराणि मूर्छयेत् ।
इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते

11.36

अस्माद्विरेकात् संशुद्धो रसः पात्यस्ततः परम् ।
उद्धृतः काञ्जिकक्वाथात् पूतिदोषनिवृत्तये

11.37

ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वभाजने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः

11.38

शुल्लेन पातयेत् पिष्टीं त्रिधोर्ध्वं सप्तधा त्व् अधः

11.39

त्रिफलाशिग्रुशिखिभिर् लवणासुरीसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेच्चोर्ध्वभाजने ।
ततो दीप्तैरधः पातमुत्पलैस्तत्र कारयेत्

11.40

हरिद्राङ्कोलशम्पाककुमारीत्रिफलाग्निभिः ।
तण्डुलीयकवर्षाभूहिङ्गुसैन्धवमाक्षिकैः

11.41

पिष्टं रसं सलवणैः सर्पाक्ष्यादिभिरेव वा ।
पातयेद् अथवा देवि व्रणघ्नो यक्षलोचनैः

11.42

इत्थं ह्य् अधऊर्ध्वपातेन पातितो ऽसौ यदा भवेत् ।
तदा रसायने योग्यो भवेद् द्रव्यविशेषतः

11.43

अथवा दीपकयन्त्रे निपातितः सर्वदोषनिर्मुक्तः

11.44

तिर्यक्पातनविधिना निपातितः सूतराजस्तु ।
श्लक्ष्णीकृतम् अभ्रदलं रसेन्द्रयुक्तं तथारनालेन

11.45

खले दत्त्वा मृदितं यावत् तन् नष्टपिष्टताम् एति ।
कुर्यात् तिर्यक्पातनपातितसूतं क्रमेण दृढवह्निम्

11.46

संस्वेद्यः पात्यो ऽसौ न पतति यावद् दृढश् चाग्नौ ।
तदासौ शुध्यते सूतः कर्मकारी भवेद्ध्रुवम्

11.47

मर्दनैर् मूर्छनैः पातैर्मन्दः शान्तो भवेद् रसः

11.48

सृष्ट्यम्बुजैर् निरोधेन ततो मुखकरो रसः ।
स्वेदनादिवशात्सूतो वीर्यं प्राप्नोत्यनुत्तमम्

11.49

नियम्यो ऽसौ ततः सम्यक् चपलत्वनिवृत्तये ।
कर्कोटी फणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः ।
समं कृत्वारनालेन स्वेदयेच्च दिनत्रयम्

11.50

मरिचैर् भूखगयुक्तैर् लवणासुरीशिग्रुटङ्कणोपेतैः ।
काञ्जिकयुक्तैस्त्रिदिनं ग्रासार्थी जायते स्वेदात्

11.51

त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैर् लवणोषणाम्लैः ।
नेपालताम्रदलशोषितमारनाले साम्लासवाम्लपुटितं रसदीपनं तत्

11.52

स्वेदयेदासवाम्लेन वीर्यतेजःप्रवृद्धये ।
यथोपयोगं स्वेद्यः स्यान् मूलिकानां रसेषु च

11.53

सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुकर्णिका

11.54

वर्षाभूः कम्बुकी दूर्वा सैर्यकोत्पलशिम्बिकाः ।
शतावरी वज्रलता वज्रकन्दाग्निकर्णिका

11.55

श्वेतार्कशिग्रुधत्तूरमृगदूर्वारसाङ्कुशाः ।
रम्भा रक्ताभनिर्गुण्डी लज्जालुः सुरदालिका

11.56

मण्डूकपर्णी पाताली चित्रकं ग्रीष्मसुन्दरा ।
काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका

11.57

जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः ।
कोशातकी नीरं कणा लाङ्गली कटुतुम्बिका

11.58

चक्रमर्दो ऽमृता कन्दः सूर्यावर्तेषु पुङ्खिका ।
वाराही हस्तिशुण्डी च प्रायेण रसमूलिकाः

11.59

रसस्य भावने स्वेदे मृषालेपे च पूजिताः ।
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
कार्यास्ते प्रथमं शेषा नोक्ता द्रव्योपयोगिनः

11.60

पञ्चविंशतिसंख्याकान्रसबन्धान् प्रचक्ष्महे ।
येन येन हि चाञ्चल्यं दुर्ग्रहत्वं च नश्यति ।
रसराजस्य सम्प्रोक्तो बन्धनार्थो हि वार्त्तिकैः

11.61

हठारोटौ तथाभासः क्रियाहीनश्च पिष्टिका ।
क्षारः खोटश्च पोटश्च कल्कबन्धश्च कज्जलिः

11.62

सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।
शृङ्खलाद्रुतिबन्धौ च बालकश्च कुमारकः

11.63

तरुणश् च तथा वृद्धो मूर्तिबद्धस् तथापरः ।
जलबन्धो ऽग्निबन्धश्च सुसंस्कृतकृताभिधः ।
महाबन्धाभिधश्चेति पञ्चविंशतिरीरिताः

11.64

केचिद्वदन्ति षड्विंशो जलूकाबन्धसंज्ञकः ।
स तावन्नेष्यते देहे स्त्रीणां द्रावे ऽतिशस्यते

11.65

हठो रसः स विज्ञेयः सम्यक् शुद्धिविवर्जितः ।
स सेवितो नृणां कुर्यान् मृत्युं वा व्याधिमुद्धतम्

11.66

सुशोधितो रसः सम्यगारोट इति कथ्यते ।
स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः

11.67

पुटितो यो रसो याति योगं मुक्त्वा स्वभावताम् ।
भावितो धातुमूलाद्यैर् आभासो गुणवैकृतेः

11.68

असंशोधितलोहाद्यैः साधितो यो रसोत्तमः ।
क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः

11.69

तीव्रातपे गाढतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा ।
स रसः पिष्टिकाबन्धो दीपनः पाचनस्तराम्

11.70

शङ्खशुक्तिवराटाद्यैर् यो ऽसौ संसाधितो रसः ।
क्षारबन्धः परं दीप्तिपुष्टिकृच्छूलनाशनः

11.71

बन्धो यः खोटतां याति ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटबन्धः स विज्ञेयः शीघ्रं सर्वगदापहः

11.72

द्रुतकज्जलिका मोचापत्त्रके चिपिटीकृता ।
स पोटः पर्पटी सैव बालाद्यखिलरोगनुत्

11.73

स्वेदाद्यैः साधितः सूतः पङ्कत्वं समुपागतः ।
कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः

11.74

कज्जली रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा ।
तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते

11.75

भस्मीकृतो गच्छति वह्नियोगाद् रसः सजीवः स खलु प्रदिष्टः ।
संसेवितो ऽसौ न करोति भस्मकार्यं जवाद् रोगविनाशनं च

11.76

जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः ।
निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति सद्यः

11.77

रसस्तु पादांशवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः

11.78

पिष्टीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः ।
हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः

11.79

वज्रादिनिहतः सूतो हतः सूतः समो ऽपरः ।
शृङ्खलाबद्धसूतस्तु देहलोहविधायकः ।
चित्रप्रभावां वेगेन व्याप्तिं जानाति शंकरः

11.80

युक्तो ऽपि बाह्यद्रुतिभिश्च सूतो बन्धंगतो वा भसितस्व पः ।
स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा

11.81

समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन ।
रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति

11.82

हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलो ऽसौ ।
त्रिः सप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च

11.83

चतुर्गुणव्योमकृताशनो ऽसौ रसायनाग्र्यस् तरुणाभिधानः ।
स सप्तरात्रात्सकलामयघ्नो रसायनो वीर्यबलप्रदाता

11.84

यस्याभ्रकः षड्गुणितो हि जीर्णः प्राप्ताग्निसख्यः स हि वृद्धनामा ।
देहे च लोहे च नियोजनीयः शिवादृते को ऽस्य गुणान् प्रवक्ति

11.85

यो दिव्यमूलिकाभिश्च कृतो ऽत्यग्निसहो रसः ।
विनाभ्रजारणात्स स्यान्मूर्तिबन्धो महारसः

11.86

अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः ।
योजितः सर्वयोगेषु निरौपम्यफलप्रदः

11.87

शिलातोयमुखैस्तोयैर् बद्धो ऽसौ जलबन्धवान् ।
स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः

11.88

केवलो योगेषु वा ध्मातः स्याद्गुटिकाकृतिः ।
अक्षीणश्चाग्निबद्धो ऽसौ खेचरत्वादिकृत् स हि

11.89

विष्णुक्रान्ताशशिलताकुम्भीकनकमूलकैः ।
विशालानागिनीकन्दव्याघ्रपादीकुरुण्टकैः

11.90

वृश्चिकालीभशुण्डीभ्यां हंसपादा सहासुरैः ।
अप्रसूतगवां मूत्रैः पिष्टं वा कुलके पचेत्

11.91

पक्वमेवं मृतैर् लोहैर्मर्दितं विपचेद् रसम् ।
यन्त्रेषु मूर्छा सूतानामेष कल्पः समासतः

11.92

हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकताम् अक्षीणो निबिडो गुरुश्च गुटिकाकारो ऽतिदीर्घोज्ज्वलः ।
चूर्णत्वं पटुवत् प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि महाबन्धाभिधानो रसः

11.93

सूते गर्भनियोजितार्धकनके पादांशनागे ऽथवा पञ्चाङ्गुष्ठकशाल्मलीकृतमदाश्लेष्मातबीजैस् तथा ।
तद्वत् तेजिनीकोलकाख्यफलजैश् चूर्णं तिलं पत्त्रकं तप्ते खल्लतले निधाय मृदिते जाता जलूका वरा

11.94

सैषा स्यात्कपिकच्छूरोमपटले चन्द्रावती तैलके चन्द्रे टङ्कणकामपिप्पलीजले स्विन्ना भवेत् तेजिनी ।
तप्ते खल्लतले विमर्द्य विधिवद्यत्नाद्वटी या कृता सा स्त्रीणां मददर्पनाशनकरी ख्याता जलूका वरा

11.95

बाल्ये चाष्टाङ्गुला योज्या यौवने च दशाङ्गुला ।
द्वादशैव प्रगल्भानां जलौका त्रिविधा मता

11.96

धृत्वा सूतमुखे पात्रं मेषीक्षीरं प्रदापयेत् ।
स्थापयेदातपे तीव्रे वासराण्येकविंशतिः

11.97

द्वितीयात्र मया प्रोक्ता जलौका द्रावणे हिता ।
पुरुषाणां स्थिता मूर्ध्नि द्रावयेद्बीजम् अद्भुतम्

11.98

मुनिपत्त्ररसं चैव शाल्मलीवृन्तवारि च ।
जातीमूलस्य तोयं च शिंशपातोयसंयुतम्

11.99

श्लेष्मातकफलं चैव त्रिफलाचूर्णम् एव च ।
कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद् बुधः

11.100

जलूका जायते दिव्या रामाजनमनोहरा ।
सा योज्या कामकाले तु कामयेत्कामिनी स्वयम्

11.101

त्रिफलाभृङ्गमहौषधमधुसर्पिश्छागदुग्धगोमूत्रे ।
नागं सप्तनिषिक्तं समरसजारितं जलूका स्यात्

11.102

भानुस्वरदिनसंख्याप्रमाणसूतं गृही तदीनारम् ।
अङ्कोलराजवृक्षककन्यारसतश्च शोधनं कुर्यात्

11.103

शशिरेखावरवर्णिनीसकोकिलाक्षापामार्गकनकानाम् ।
चूर्णैः सहैकविंशतिदिनानि संमर्दयेत् सम्यक्

11.104

निशायाः काञ्जिकं यूषं दत्त्वा योनौ प्रवेशयेत् ।
बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् ।
नीरसानामपि नॄणां योषा स्यात्संगमोत्सुका

11.105

रसभागं चतुष्कं च वङ्गभागं च पञ्चमम् ।
सुरसारसमं युक्तं टङ्कणेन समन्वितम्

11.106

त्रिदिनं मर्दयित्वा च गोलकं तं रसोद्भवम् ।
लिङ्गाग्रे योनिनिक्षिप्तं यावद् आयुर्वशंकरम्

11.107

कर्पूरसूरणसुभृङ्गसुमेघनादैर् नागं निषिच्य तु मिथो वलयेद् रसेन ।
लिङ्गस्थितेन वलयेन नितम्बिनीनां स्वामी भवत्यनुदिनं स तु जीवहेतुः

11.108

टङ्कणपिप्पलिकाभिः सूरणकर्पूरमातुलुङ्गरसैः ।
कृत्वा स्वलिङ्गलेपं योनिं विद्रावयेत् स्त्रीणाम्

11.109

अग्न्यावर्तितनागे हरबीजं निक्षिपेत्ततो द्विगुणम् ।
मुनिकनकनागसर्पैर् दन्त्याथ सिञ्याच् च तन्मध्यम्

11.110

तक्रेण मर्दयित्वा गणेन मदनवलयं कुर्यात् ।
रतिसमये वनितानां रतिगर्वविनाशनं कुरुते

11.111

व्याघ्रीबृहतीफलरससूरणकन्दं च चणकपत्त्राम्लम् ।
कपिकच्छुवज्रवल्लीपिप्पलिकाम्लिकाचूर्णम्

11.112

अग्न्यावर्तितनागं नववारं मर्दयेद्धिमैर्द्रव्यैः ।
स्मरवलयं कृत्वैतद्वनितानां द्रावणं कुरुते

11.113

पलाशबीजकं रक्तजम्बीराम्लेन सूतकम् ।
सजीवं मर्दितं यन्त्रे पाचितं म्रियते ध्रुवम्

11.114

खरमञ्जरि बीजान्वितपुष्करबीजैः सुचूर्णितैः कल्कम् ।
कृत्वा सूतं पुटयेद् दृढमूषायां भवेद्भस्म

11.115

काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः ।
मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव

11.116

देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम्

11.117

तत्सूतं खर्परे दद्याद्दत्त्वा दत्त्वा तु तद्द्रवम् ।
चुल्ल्योपरि पचेच् चाह्नि भस्म स्याल्लवणोपमम्

11.118

अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायाम् अधरोत्तरम् ।
रुद्ध्वा लघुपुटैः पच्याच् चतुर्भिर् भस्मतां नयेत्

11.119

कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुते ।
सप्तधा स्वेदितः सूतो म्रियते गोमयाग्निना

11.120

अङ्कोलस्य शिफावारिपिष्टं खल्ले विमर्दयेत् ।
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते स मृतो भवेत्

11.121

वटक्षीरेण सूताभ्रौ मर्दयेत्प्रहरत्रयम् ।
पाचयेत्तेन काष्ठेन भस्मीभवति तद्रसः

11.122

अथातुरो रसाचार्यं साक्षाद्देवं महेश्वरम् ।
साधितं च रसं शृङ्गदन्तवेण्वादिधारितम्

11.123

अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।
पर्णखण्डे धृतं सूतं जग्ध्वा स्यादनुपानतः

11.124

घृतसैन्धवधान्यकजीरकार्द्रकसंस्कृतम् ।
तण्डुलीयकधान्यकपटोलालम्बुषादिकम्

11.125

गोजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ।
हंसोदकं मुद्गरसः पथ्यवर्गः समासतः

11.126

बृहती बिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ।
माषं मसूरं निष्पावं कुलत्थं सर्षपं तिलम्

11.127

लङ्घनोद्वर्तनस्नानताम्रसुरासवान् ।
आनूपमांसं धान्याम्लं भोजनं कदलीदले ।
कांस्ये च गुरुविष्टम्भि तीक्ष्णोष्णं च भृशं त्यजेत्

11.128

कण्टारीफलकाञ्जिकं च कमठस्तैलं तथा राजिकाम् निम्बूकं कतकं कलिङ्गकफलं कूष्माण्डकं कर्कटी ।
कारी कुक्कुटकारवेल्लकफलं कर्कोटिकायाः फलम् वृन्ताकं च कपित्थकं खलु गणः प्रोक्तः ककारादिकः

11.129

देवीशास्त्रोदितः सो ऽयं ककारादिगणो मतः ।
शास्त्रान्तरविनिर्दिष्टः कथ्यते ऽन्यप्रकारतः

11.130

कङ्गुः कन्दुककोलकुक्कुटकलक्रोडाः कुलत्थास्तथा कण्टारी कटुतैलकृष्णगलकः कूर्मः कलायः कणा ।
कर्कारुश्च कठिल्लकं च कतकं कर्कोटकं कर्कटी काली काञ्जिकमेषकादिकगणः श्रीकृष्णदेवोदितः

11.131

यस्मिन्रसे च कण्ठोक्त्या ककारादिर्निषेधितः ।
तत्र तत्र निषेद्धव्यं तदौचित्यमतो ऽन्यतः

11.132

उद्गारे सति दध्यन्नं कृष्णमीनं सजीरकम् ।
अभ्यङ्गम् अनिलक्षोभे तैलैर् नारायणादिभिः

11.133

अरतौ शीततोयेन मस्तकोपरि सेचनम् ।
तृष्णायां नारिकेलाम्बु मुद्गं सशर्करम्

11.134

द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् ।
रसवीर्यविवृद्ध्यर्थं दधिक्षीरेक्षुशर्कराः ।
शीतोपचारम् अन्यं च रसत्यागविधौ पुनः

11.135

भक्षयेद् बृहतीं बिल्वं सकृत्साधारणो विधिः

मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc