भाषा

ENहिગુ
ग्रंथ पाठ

Rasaratnasamuccaya · अध्याय 10

10.1

मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ।
पाचनी वह्निमित्रा च रसवादिभिरीर्यते

10.2

मुष्णाति दोषान् मूषा या सा मूषेति निगद्यते

10.3

उपादानं भवेत्तस्या मृत्तिका लोहमेव च

10.4

मूषा मुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग्लक्षम् अपि मानिनाम्

10.5

मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम्

10.6

मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थम् अतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते

10.7

या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर् वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात् खलु मूषिकार्थे

10.8

श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणखर्परे ।
लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि

10.9

मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते

10.10

दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता

10.11

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः

10.12

गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता

10.13

क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकोचिता

10.14

दुग्धषड्गुणागाराष्टकिट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।
यामयुग्मपरिध्मानान् नासौ द्रवति वह्निना

10.15

वज्राङ्गारतुषास्तुल्यास् तच्चतुर्गुणमृत्तिका ।
गारा च मृत्तिकातुल्या सर्वैर् एतैर् विनिर्मिता ।
वरमूषेति निर्दिष्टा याममग्निं सहेत सा

10.16

पाषाणरहिता रक्ता रक्तवर्गानुसाधिता ।
मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते

10.17

पाषाणरहिता श्वेता श्वेतवर्गानुसाधिता ।
मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।
रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते

10.18

तत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता

10.19

गारभूनागधौताभ्यां तुषमृष्टशणेन च ।
समैः समा च मूषा मृन्महिषीदुग्धमर्दिता

10.20

क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः

10.21

बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका ।
सहते ऽग्निं चतुर्यामं द्रवेण व्याधिता सती

10.22

द्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत्तन्मूषाप्यायनम् उच्यते

10.23

वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।
धत्तूरपुष्पवच् चोर्ध्वं सुदृढं श्लिष्टपुष्पवत्

10.24

अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत्

10.25

मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत्

10.26

निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता

10.27

कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोटल्यादिविपाचने

10.28

निर्वक्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी

10.29

तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत् स्थूला महामूषेत्यसौ स्मृता ।
सा चायो ऽभ्रकसत्त्वादेः पुटाय द्रावणाय च

10.30

मण्डूकाकारा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि

10.31

मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता

10.32

सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणम् उच्यते

10.33

राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च

10.34

एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम्

10.35

देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिर् उत्तरङ्गस्य चोर्ध्वतः

10.36

द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च

10.37

शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत्

10.38

सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेद् अङ्गारकोष्ठीयं खराणां सत्त्वपातिनी

10.39

दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत्

10.40

चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम्

10.41

किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् ।
मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत्

10.42

आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा मृदूनां सत्त्वपातिनी ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता

10.43

द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता

10.44

भूरिच्छिद्रवती चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद् वङ्कनालतः ।
गारकोष्ठीयम् आख्याता मृष्टलोहविनाशिनी

10.45

मूषामृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ।
वङ्कनालम् इदं प्रोक्तं दृढध्मानाय कीर्तितम्

10.46

कोष्ठी सिद्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी

10.47

रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितम् औषधम्

10.48

लोहादेरपुनर्भावो गुणाधिक्यं ततो ऽग्रता ।
अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत्

10.49

पुटाद् ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः

10.50

यथाश्मनि विशेद् वह्निर् बहिस्थपुटयोगतः ।
चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम्

10.51

निम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोत्पलसहस्रेण पूरिते पुटनौषधम्

10.52

क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ।
वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम्

10.53

राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ।
पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत्

10.54

विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।
पूर्णच्छगणतो ऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम्

10.55

इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते

10.56

पुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रेयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम्

10.57

यत्पुटं दीयते भूमावष्टसंख्यैर् वनोपलैः ।
बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते

10.58

गोष्ठान्तर्गोक्षुरणं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने

10.59

गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये

10.60

स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते

10.61

अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम्

10.62

वह्निमित्राः क्षितौ सम्यङ्निखन्याद्द्वयंगुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद् भूधराह्वयम्

10.63

ऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात्सुमृदुद्रव्यसाधने

10.64

अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यम् ऊहापोहविचक्षणैः

10.65

पिष्टकं छगणं छाणम् उत्पलं चोपलं तथा ।
गिरिण्डोपलसाठी च वराटी छगणाभिधाः

10.66

सुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसम् ।
षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ

10.67

लवणानि षड् उच्यन्ते सामुद्रं सैन्धवं विडम् ।
सौवर्चलं रोमकं च चूल्लिकालवणं तथा

10.68

क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम्

10.69

पलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका ।
तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम्

10.70

घृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम्

10.71

कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् ।
कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम्

10.72

अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात्

10.73

अङ्कोलोन्मत्तभल्लातपलाशेभ्यस् तथैव च ।
एतेभ्यस्तैलमादाय रसकर्मणि योजयेत्

10.74

जम्बूकमण्डूकवसा वसा कच्छपसम्भवा ।
कर्कटीशिशुमारी च गोशूकरनरोद्भवा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा

10.75

मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
गो ऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत्

10.76

माहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः ।
तत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम्

10.77

अम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् ।
चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम्

10.78

अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका ।
करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः

10.79

चणकाम्लश्च सर्वेषामेक एव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ।
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम्

10.80

कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः ।
पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम्

10.81

इष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका ।
रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः

10.82

शृङ्गीकं कालकुटं च वत्सनाभं सकृत्रिमम् ।
पित्तं च विषवर्गो ऽयं स वरः परिकीर्तितः

10.83

रसकर्मणि शस्तो ऽयं तद्भेदनविधाव् अपि ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम्

10.84

लाङ्गली विषमुष्टिश्च करवीरं जया तथा ।
नीलकः कनको ऽर्कश्च वर्गो ह्य् उपविषात्मकः

10.85

हस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका ।
उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम्

10.86

दुग्धिका स्नुग्गुणश् चैव तथैवोत्तमकण्टिका ।
एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु

10.87

पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विंगणः ।
शोधनं सर्वलोहानां पुटनाल्लेपनात् खलु

10.88

कुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।
अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी ।
माक्षिकं चेति विज्ञेयो रक्तवर्गो ऽतिरञ्जनः

10.89

किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गो ऽयमादिष्टो रसराजस्य कर्मणि

10.90

तगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा ।
सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः

10.91

कदली कारवेल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः

10.92

रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु

10.93

काचटङ्कणक्षिप्राभिः शोधनीयो गणो मतः

10.94

सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालीकङ्गुणध्वंसी रसवादिभिरुच्यते

10.95

महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् ।
शशास्थीनि च योगो ऽयं लोहकाठिन्यनाशनः

10.96

गुडगुग्गुलुगुञ्जाज्यसारघैष् टङ्गणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणाय गणो मतः

10.97

क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते

मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc