Rasaratnasamuccaya · अध्याय 1
श्रीः
ओं तत्सद्ब्रह्मणे नमः ।
अथ रसरत्नसमुच्चयः ।
रसोत्पत्तिर्नाम प्रथमो ऽध्यायः ।
यस्यानन्दभवेन मङ्गलकलासंभावितेन स्फुर- धाम्ना सिद्धरसामृतेन करुणावीक्षासुधासिन्धुना ।
भक्तानां प्रभवप्रसंहृतिजरारागादिरोगाः क्षणा- च्छान्तिं यान्ति जगत्प्रधानभिषजे तस्मै परस्मै नमः
आदिमश्चन्द्रसेनश् च लङ्केशश् चविशारदः ।
कपाली मत्तमाण्डव्यौ भास्करः शूरसेनकः
रत्नकोशश् च शंभुश् च सात्त्विको नरवाहनः ।
इन्द्रदो गोमुखश्चैव कम्बलिर्व्याडिरेव च
नागार्जुनः सुरानन्दो नागबोधिर्यशोधनः ।
खण्डः कापालिको ब्रह्मा गोविन्दो लम्पको हरिः
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ।
रसाङ्कुशो भैरवश् च नन्दी स्वच्छन्दभैरवः
मन्थानभैरवश्चैव काकचण्डीश्वरस्तथा ।
वासुदेव ऋषिः शृङ्गः क्रियातन्त्रसमुच्चयी
रसेन्द्रतिलको योगी भालुकी मैथिलाह्वयः ।
महादेवो नरेन्द्रश् च वासुदेवो हरीश्वरः
एतेषां क्रियते ऽन्येषां तन्त्राण्यालोक्य संग्रहः ।
रसानामथ सिद्धानां चिकित्सार्थोपयोगिनाम्
सूनुना सिंहगुप्तस्य रसरत्नसमुच्चयः ।
रसोपरसलोहानि यन्त्रादिकरणानि च
शुद्ध्यर्थमपि लोहानां तन्त्रादिकरणानि च ।
शुद्धिः सत्त्वं द्रुतिर्भस्म- करणं च प्रवक्ष्यते
अस्ति नीहारनिलयो महानुत्तरदिङ्मुखे ।
उत्तुङ्गशृङ्गसंघात- लङ्घिताभ्रो महीधरः
विश्रामाय वियन्मार्ग- विलङ्घनघनश्रमः ।
अवतीर्ण इव क्षोणीं शरदम्बुमुचां गणः
राशिराशीविषाधीश- फणाफलकरोचिषाम् ।
भित्त्वा भुवमिवोत्तीर्णो यो विभाति भृशोन्नतः
ज्वलदौषधयो यस्य नितम्बमणिभूमयः ।
नक्तमुद्दामतडिताम् अनुकुर्वन्ति वार्मुचाम्
कटके संचरन्तीनां यस्य किन्नरयोषिताम् ।
पादेषु धातुरागेण लाक्षाकृत्यमनुष्ठितम्
अवतंसितशीतांशुर् आच्छादितदिगम्बरः ।
यो गुहाधिगतो लोकैर् गिरीश इति गीयते
निमीलितदृशो नित्यं मुनयो यस्य सानुषु ।
प्रत्यक्षयन्ति गिरिशम् अवाङ्मनसगोचरम्
शिलातलप्रतिहतैर् यस्य निर्झरशीकरैः ।
अहन्यपि निरीक्षन्ते यक्षास्ताराङ्कितं नभः
नीहारपवनोद्रेक- निःसहा यत्र पुरुषाः ।
निजस्त्रीणां निषेवन्ते कुचोष्माणं निरन्तरम्
संचरन् कटके यस्य निदाघे ऽपि दिवाकरः ।
उद्दामहिमरुद्धोष्मा न शीतांशोर्विभिद्यते
गुहागृहेषु कस्तूरी- मृगनाभिसुगन्धिषु ।
गायन्ति यत्र किन्नर्यो गौरीपरिणयोत्सवम्
चकास्ति तत्र जगताम् आदिदेवो महेश्वरः ।
रसात्मना जगत्त्रातुं जातो यस्मान्महारसः
शताश्वमेधेन कृतेन पुण्यं गोकोटिभिः स्वर्णसहस्रदानात् ।
नृणां भवेत् सूतकदर्शनेन यत् सर्वतीर्थेषु कृताभिषेकात्
विधाय रसलिङ्गं यो भक्तियुक्तः समर्चयेत् ।
जगत्त्रितयलिङ्गानां पूजाफलमवाप्नुयात्
भक्षणं स्पर्शनं दानं ध्यानं च परिपूजनम् ।
पञ्चधा रसपूजोक्ता महापातकनाशिनी
हन्ति भक्षणमात्रेण पूर्वजन्माघसंभवम् ।
रोगसंघमशेषाणां नराणां नात्र संशयः
पूर्वजन्मकृतं पापं सद्यो नश्यति देहिनाम् ।
सुगन्धपिष्टसूतेन यदि शंभुर्विलेपितः
अभ्रकं त्रुटिमात्रं यो रसस्य परिजारयेत् ।
शतक्रतुफलं तस्य भवेदित्यब्रवीच्छिवः
यश् च निन्दति सूतेन्द्रं शंभोस्तेजः परात्परम् ।
स पतेन्नरके घोरे यावत्कल्पविकल्पना
रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् ।
तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम्
सिद्धे रसे करिष्यामि निर्दारिद्र्यगदं जगत् ।
रसध्यानमिदं प्रोक्तं ब्रह्महत्यादिपापनुत्
अभ्रग्रासो हि सूतस्य नैवेद्यं परिकीर्तितम् ।
रसस्येत्यर्चनं कृत्वा प्राप्नुयात्क्रतुजं फलम्
उदरे संस्थिते सूते यस्योत्क्रामति जीवितम् ।
स मुक्तो दुष्कृताद्घोरात् प्रयाति परमं पदम्
मूर्छित्वा हरति रुजं बन्धनम् अनुभूय मुक्तिदो भवति ।
अमरीकरोति हि मृतः को ऽन्यः करुणाकरः सूतात्
सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् ।
श्वित्रं तद् अपि च शमयति यस् तस्मात् कः पवित्रतरः सूतात्
रसबन्ध एव धन्यः प्रारम्भे यस्य सततमितिकरणा ।
सेत्स्यति रसे करिष्ये महीमहं निर्जरामरणाम्
सुकृतफलं तावदिदं सुकुले यज्जन्म धीश् च तत्रापि ।
सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयम्
भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।
भोगाश् च सन्ति शरीरे तदनित्यमतो वृथा सकलं
इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयम् ।
मुक्तौ साच ज्ञनात्तच्चाभ्यासात्स च स्थिरे देहे
तत्स्थैर्ये न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च
काष्ठौषध्यो नागे नागो वङ्गे ऽथ वङ्गमपि शुल्बे ।
शुल्बं तारे तारं कनके कनकं च लीयते सूते
अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः
परमात्मनीव सततं भवति लयो यत्र सर्वसत्त्वानाम् ।
एको ऽसौ रसराजः शरीरमजरामरं कुरुते
स्थिरदेहे ऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् ।
प्राप्नोति ब्रह्मपदं न पुनर्भववासजन्मदुःखानि
एकांशेन जगद्युगपदवष्टभ्यावस्थितं परं ज्योतिः ।
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण
न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण ।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम्
नामापि देहसिद्धे को गृण्हीयाद्विना शरीरेण ।
यद्योगगम्यममलं मनसो ऽपि न गोचरं तत्त्वं
यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।
अत्यन्तभूयसी किल योगवशादात्मसंवित्तिः
भ्रूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि ।
केषांचित्पुण्यदृशामुन्मीलति चिन्मयं परं ज्योतिः
परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम् ।
विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम्
तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति
रागद्वेषविमुक्ताः सत्याचारा मृषारहिताः ।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात्
तिष्ठन्त्यणिमादियुता विलसद्देहाः सदोदितानन्दाः ।
ब्रह्मस्वभावममृतं संप्राप्ताश्चैव कृतकृत्याः
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकम्
प्रत्यक्षेण प्रमाणेन यो न जानाति सूतकम् ।
अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयम्
यज्जरया जर्जरितं कासश्वासादिदुःखविवशं च ।
योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम्
बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।
यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम्
अस्मिन्नेव शरीरे येषां परमात्मनो न संवेदः ।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम्
ब्रह्मादयो यतन्ते तस्मिन्दिव्यां तनुं समाश्रित्य ।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः
तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् ।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात्
शैले ऽस्मिञ्शिवयोः प्रीत्या परस्परजिगीषया ।
संप्रवृत्ते च संभोगे त्रिलोकीक्षोभकारिणि 61 ॥
विनिवारयितुं वह्निः संभोगं प्रेषितः सुरैः ।
काङ्क्षमाणैस्तयोः पुत्रं तारकासुरमारकम्
कपोतरूपिणं प्राप्तं हिमवत्कन्दरे ऽनलम् ।
अपक्षिभावसंक्षुब्धं स्मरलीलाविलोकिनम्
तं दृष्ट्वा लज्जितः शंभुर्विरतः सुरतात्तदा ।
प्रच्युतश्चरमो धातुर्गृहीतः शूलपाणिना
प्रक्षिप्तो वदने वह्नेर्गङ्गायामपि सो ऽपतत् ।
बहिः क्षिप्तस्तया सो ऽपि परिदन्दह्यमानया
संजातास्तन्मलाधानाद्धातवः सिद्धिहेतवः ।
यावदग्निमुखाद्रेतो न्यपतद्भूरिसारतः
शतयोजननिम्नांस्तान्कृत्वा कूपांस्तु पञ्च च ।
तदाप्रभृति कूपस्थं तद्रेतः पञ्चधाभवत्
रसो रसेन्द्रः सूतश् च पारदो मिश्रकस्तथा ।
इति पञ्चविधो जातः क्षेत्रभेदेन शंभुजः
रसो रक्तो विनिर्मुक्तः सर्वदोषै रसायनः ।
संजातास्त्रिदशास्तेन नीरुजा निर्जरामराः
रसेन्द्रो दोषनिर्मुक्तः श्यावो रूक्षो ऽतिचञ्चलः ।
रसायिनो ऽभवंस्तेन नागा मृत्युजरोज्झिताः
देवैर्नागैश् च तौ कूपौ पूरितौ मृद्भिरश्मभिः ।
तदाप्रभृति लोकानां तौ जातावतिदुर्लभौ
ईषत्पीतश् च रूक्षाङ्गो दोषयुक्तश् च सूतकः ।
दशाष्टसंस्कृतैः सिद्धो देहं लोहं करोति सः
अथान्य्कूपजः को ऽपि स चलः श्वेतवर्णवान् ।
पारदो विविधैर्योगैः सर्वरोगहरः स हि
मयूरचन्द्रिकाछायः स रसो मिश्रको मतः ।
सो ऽप्यष्टादशसंस्कारयुक्तश्चातीव सिद्धिदः
त्रयः सूतादयः सूताः सर्वसिद्धिकरा अपि ।
निजकर्मविनिर्माणैः शक्तिमन्तो ऽतिमात्रया
एतां रससमुत्पत्तिं यो जानाति स धार्मिकः ।
आयुरारोग्यसंतानं रससिद्धिं च विन्दति
रसनात्सर्वधातूनां रस इत्यभिधीयते ।
जरारुङ्मृत्युनाशाय रस्यते वा रसो मतः
रसोपरसराजत्वाद्रसेन्द्र इति कीर्तितः ।
देहलोहमयीं सिद्धिं सूते सूतस्ततः स्मृतः
रोगपङ्काब्धिमग्नानां पारदानाच्च पारदः ।
सर्वधातुगतं तेजोमिश्रितं यत्र तिष्ठति
तस्मात् स मिश्रकः प्रोक्तो नानारूपफलप्रदः ।
एवंभूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः ।
प्रभावान्मानुषा जाता देवतुल्यबलायुषः
तान् दृष्ट्वाभ्यर्थितो रुद्रः शक्रेण तदनन्तरम् ।
दोषैश् च कञ्चुकाभिश् च रसराजो नियोजितः
तदाप्रभृति सूतो ऽसौ नैव सिध्यत्यसंस्कृतः ।
जलगो जलरूपेण त्वरितो हंसगो भवेत्
मलगो मलरूपेण सधूमो धूमगो भवेत् ।
अन्या जीवगतिर्दैवी जीवो ऽण्डादिव निष्क्रमेत्
स तांश् च जीवयेज्जीवांस्तेन जीवो रसः स्मृतः ।
चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः
मन्त्रध्यानादिना तस्य रुध्यते पञ्चमी गतिः
इति भिन्नगतित्वाच्च सूतराज्यस्य दुर्लभः ।
संस्कारस्तस्य भिषजा निपुणेन तु रक्षयेत्
प्रथमे रजसि स्नातां हयारूढां स्वलंकृतां ।
वीक्षमाणां वधूं दृष्ट्वा जिघृक्षुः कूपगो रसः
उद्गच्छति जवात्सापि तं दृष्ट्वा याति वेगतः ।
अनुगच्छति तां सूतः सीमानं योजनोन्मितम्
प्रत्यायाति ततः कूपं वेगतः शिवसंभवः ।
मार्गनिर्मितगर्तेषु स्थितं गृह्णन्ति पारदम् ।
पतितो दरदे देशे गौरवाद्वह्निवक्त्रतः
स रसो भूतले लीनस्तत्तद्देशनिवासिनः ।
तां मृदं पातनायन्त्रे क्षिप्त्वा सूतं हरन्ति च
मूल पाठ: Rasaratnasamuccaya · Edition: Krsnaravasarman Vinayaka Bapata, Poona 1890. (Anandasrama Sanskrit Series edition, vol. 19) · Data entry Wieslaw Mical Somadeva Vasudeva Anne Glazier Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0