भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 3.8

3.8.1

र्रा, 3, 8
{तिन्:: शोधन}
कार्पासार्ककरञ्जधूर्तमुनिजैर् भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः ।
तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर् यावत्पञ्चदिनं तद् एव विमलं वादे सदा योजयेत्

3.8.2

{तिन्:: शोधन}
अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः ।
समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम्

3.8.3

तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे ।
पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत्

3.8.4

इत्येवं सप्तधा कुर्यात् खोटं पाकं च मर्दनम् ।
तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत्

3.8.5

{तिन्:: स्तम्भन}
तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् ।
चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम्

3.8.6

{तिन् => सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका ।
विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा

3.8.7

काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे ।
द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत्

3.8.8

पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः ।
तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम्

3.8.9

{तिन् => सिल्वेर्}
श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् ।
स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम्

3.8.10

लेप्यं पादांशकल्केन चांधमूषागतं धमेत् ।
आदाय द्रावयेद् भूमौ पूर्वतैलेन सेचयेत्

3.8.11

पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् ।
तद् वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम्

3.8.12

{तिन् => सिल्वेर्}
समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् ।
द्रवैर् ईश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत्

3.8.13

नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् ।
पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत्

3.8.14

एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् ।
भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम्

3.8.15

शतमांशेन दातव्यं वेधात्तारं करोत्यलम्

3.8.16

{तिन् => सिल्वेर्}
सूतकं तालमेकैकं नृकपालं द्विभागकम् ।
सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात्

3.8.17

विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् ।
मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः

3.8.18

दत्ते वारत्रयं वङ्गे तारं भवति शोभनम्

3.8.19

{तिन् => सिल्वेर्}
गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् ।
तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत्

3.8.20

क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् ।
क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत्

3.8.21

मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् ।
एवं वारत्रयं कुर्यात्तारं भवति शोभनम्

3.8.22

वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका ।
तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत्

3.8.23

वसन्तपुष्पिकां वापि तदभावे नियोजयेत् ।
बाला नाम समाख्याता कट्या धूलीसमा तथा

3.8.24

{तिन् => सिल्वेर्}
श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् ।
एकविंशतिवारेण मेषीक्षीरेण भावयेत्

3.8.25

तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ।
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम्

3.8.26

{तिन् => सिल्वेर्}
तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् ।
तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत्

3.8.27

तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ।
{तिन् => सिल्वेर्}
तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा

3.8.28

तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् ।
अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा

3.8.29

तत्तारं जायते दिव्यं धर्मकामफलप्रदम् ।
{तिन् => सिल्वेर्}
रसो मूषकपाषाणं फट्किरी नीलम् अञ्जनम्

3.8.30

अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि ।
भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना

3.8.31

अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् ।
दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत्

3.8.32

त्रिंशदंशेन तत्तारं जायते देवभूषणम् ।
{तिन् => सिल्वेर्}
तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा

3.8.33

अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् ।
अम्लेन मर्दयेत् तावद्यावद्भवति गोलकम्

3.8.34

मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेष्टयेद् गोलं तद्बहिर्निगडेन च

3.8.35

स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् ।
उत्तरावारुणीक्षीरैस् तत्खोटं च प्रलेपयेत्

3.8.36

मूषामध्ये निधायाथ तारं दत्त्वा समं समम् ।
दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम्

3.8.37

एवं पुनः पुनस् ताप्यम् एकविंशतिवारकम् ।
दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत्

3.8.38

इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् ।
तद् वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम्

3.8.39

{तिन् => सिल्वेर्}
रक्तपारदभागैकं भागैकं शंखचूर्णकम् ।
श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत्

3.8.40

टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् ।
वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश

3.8.41

अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् ।
स्तम्भते नात्र संदेहस्तारं भवति शोभनम्

3.8.42

{तिन् => सिल्वेर्}
हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् ।
तथैव तारसूतेन पिष्टीखोटं तु कारयेत्

3.8.43

तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् ।
जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम्

3.8.44

जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् ।
शतांशेन तु तत्तारं जायते शंभुभाषितम्

3.8.45

{तिन् => सिल्वेर्}
द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके ।
टेण्टूछल्लीद्रवैर् मर्द्यं यावद्भवति गोलकम्

3.8.46

गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर् नवैः

3.8.47

अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् ।
पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत्

3.8.48

पूर्ववद् भूधरे पच्यादित्येवं सप्तधा क्रमात् ।
द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात्

3.8.49

अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् ।
जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम्

3.8.50

{तिन् => सिल्वेर्}
षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः ।
तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते

3.8.51

तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् ।
ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके

3.8.52

मर्दयेट्टेण्टुजद्रावैर् यावद्भवति गोलकम् ।
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत्

3.8.53

पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् ।
तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा

3.8.54

अंधमूषागतं धाम्यं तत्खोटं जायते रसः ।
तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत्

3.8.55

अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः ।
यावत् सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत्

3.8.56

तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् ।
लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् ।
शंखकुन्देन्दुसंकाशं तारं भवति शोभनम्

3.8.57

{चोप्पेर् => सिल्वेर्}
मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः ।
सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः

3.8.58

तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् ।
तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत्

3.8.59

तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते ।
वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम्

3.8.60

मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् ।
मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत्

3.8.61

पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम्

3.8.62

यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः ।
रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत्

3.8.63

द्रुतसूतेन संयुक्तं द्रावयेत् पूर्ववत् क्रमात् ।
द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः

3.8.64

त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे ।
सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत्

3.8.65

द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम्

3.8.66

{चोप्पेर् => सिल्वेर्}
श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् ।
वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च

3.8.67

तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् ।
द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम्

3.8.68

गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः

3.8.69

रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा ।
तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत्

3.8.70

रजतेन समावर्त्य सारणात्रयसारितम् ।
सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत्

3.8.71

तत्तारं जायते दिव्यं पुटे दत्ते न हीयते

3.8.72

{चोप्पेर् ओर् तिन् => सिल्वेर्}
वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् ।
तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम्

3.8.73

लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत्

3.8.74

एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् ।
तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् ।
अथवा द्रावितं वङ्गं तारं भवति शोभनम्

3.8.75

{चोप्पेर् => सिल्वेर्}
तारवन्मारयेद् वङ्गं तेन ताम्रं तु वेधयेत् ।
तत्तारं जायते दिव्यं षोडशांशे न संशयः

3.8.76

{चोप्पेर् => सिल्वेर्}
शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः ।
त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे

3.8.77

चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः ।
त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम्

3.8.78

दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् ।
चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः

3.8.79

अधःस्थितं समादद्यात् शुद्धः स्यात्पारदः शुभः ।
एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम्

3.8.80

विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् ।
मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम्

3.8.81

तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् ।
सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत्

3.8.82

शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् ।
स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् ।
चतुःषष्टितमांशेन तारं भवति शोभनम्

3.8.83

{तिन् + सिल्वेर् + चोप्पेर् => सिल्वेर्}
पलं सूतं पलं तालं तालस्थानेऽथवा शिला ।
कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत्

3.8.84

वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते

3.8.85

तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः ।
रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम्

3.8.86

{चोप्पेर् + सिल्वेर् => सिल्वेर्}
शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् ।
स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका

3.8.87

बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् ।
तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत्

3.8.88

दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् ।
इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद् दृढः

3.8.89

द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम्

3.8.90

{चोप्पेर् + सिल्वेर् => सिल्वेर्}
शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः ।
पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत्

3.8.91

शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् ।
मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत्

3.8.92

तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत्

3.8.93

{चोप्पेर्:: दलयोग्य}
अर्कापामार्गकदलीक्षारमम्लेन लोलितम् ।
तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः

3.8.94

पत्रं कृत्वा प्रलिप्याथ तद्वद् धाम्यं पुनः पुनः ।
इत्येवं सप्तधा कुर्यात् वादे स्याद्दलयोग्यकम्

3.8.95

{चोप्पेर्:: दलयोग्य}
अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् ।
लोणारनालमध्ये तु शतधा पूर्ववद्भवेत्

3.8.96

पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् ।
ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः

3.8.97

इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत्

3.8.98

{चोप्पेर् + सिल्वेर् => सिल्वेर्}
सुशुद्धं तालकं सूतं सामुद्रलवणं समम् ।
द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत्

3.8.99

मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् ।
ततः समुद्रलवणं तालांशं मर्दयेत्पृथक्

3.8.100

यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् ।
चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत्

3.8.101

तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् ।
क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत्

3.8.102

यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना ।
तत्सत्त्वं मृतसूताभम् ऊर्ध्वलग्नं समाहरेत्

3.8.103

बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् ।
दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये ।
तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम्

3.8.104

{सिल्वेर्:: प्रोदुच्तिओन्}
इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् ।
मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् ।
तत्खोटं समतारेण द्रावितं तारतां व्रजेत्

3.8.105

{सिल्वेर्:: रञ्जन}
ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् ।
तारार्धेन समावर्त्य तारं भवति शोभनम्

3.8.106

{सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग् थे चोलोउर्}
तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् ।
अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम्

3.8.107

समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् ।
तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम्

3.8.108

{सिल्वेर्:: रञ्जन, ओप्तिमिसिन्ग् थे चोलोउर्}
मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् ।
तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत्

3.8.109

टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् ।
ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत्

3.8.110

काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् ।
इत्येवं पञ्चधा कुर्यात् सत्त्वं दत्त्वा पुनः पुनः

3.8.111

तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् ।
त्रितयं तु समावर्त्य ताम्रारे द्राविते समे

3.8.112

वेधो देयो दशांशेन बीजं पादं च योजयेत् ।
तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम्

3.8.113

{सिल्वेर्:: रञ्जन}
शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् ।
तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम्

3.8.114

योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् ।
सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत्

3.8.115

सम्यङ् मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः ।
सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत्

3.8.116

शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् ।
ततश्चण्डाग्निना पच्याद्यावत् षोडशयामकम्

3.8.117

स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् ।
ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत्

3.8.118

षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये ।
ततः शुद्धेन तारेण समावर्त्य समेन तु ।
तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् ।
{चोप्पेर् => सिल्वेर्}
तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे

3.8.119

चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् ।
मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः

3.8.120

भर्जितं लवणं चैव तालकाद्दशमांशकम् ।
पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत्

3.8.121

साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः ।
पूर्ववद् वालुकायन्त्रे कूपिकामष्टयामकम्

3.8.122

तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् ।
चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते

3.8.123

इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः ।
तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम्

3.8.124

चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
वेधयेत् कुन्तवेधेन ढालयेद्दधिगोमये ।
पादांशं दापयेद् बीजं तारं भवति शोभनम्

3.8.125

{सिल्वेर्:: शोधन (?); चोप्पेर् + सिल्वेर् => सिल्वेर् (?)}
टंकणं शुद्धतालस्य दशांशेन दापयेत् ।
मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम्

3.8.126

दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् ।
पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत्

3.8.127

ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् ।
षोडशांशेन तेनैव शुल्बकं तेन वेधयेत्

3.8.128

तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत्

3.8.129

{चोप्पेर् + सिल्वेर् => सिल्वेर्}
षण् निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् ।
प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम्

3.8.130

तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् ।
वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम्

3.8.131

अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् ।
अंधमूषागतं ध्मातम् एवं वारत्रये कृते ।
तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत्

3.8.132

{चोप्पेर् => सिल्वेर्}
गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् ।
तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा

3.8.133

षडंशं दापयेद् बीजं शुद्धतारं भवेत्तु तत् ।
शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः

3.8.134

{सिल्वेर्, गोल्द्:: मृदूकरण}
अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।
तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे

3.8.135

शोषितं लवणं तस्मात्समादाय प्रयत्नतः ।
रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः

3.8.136

तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके ।
इत्येवं तु त्रिधा कुर्याद् अत्यन्तं मृदुतां व्रजेत्

3.8.137

{मृदूकरण}
अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् ।
तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत्

3.8.138

{मृदूकरण}
गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् ।
कठिने दापयेद्वापं भवेन्मृदुतरं महत्

3.8.139

{दल (?):: निर्मलीकरण (?)}
नानाविधानि कार्याणि भूषणानि दलेन वै ।
श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः

3.8.140

पिष्ट्वाथ लवणं किंचित् क्षिप्त्वा तत्रैव पेषयेत् ।
तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत्

3.8.141

घर्षयन् लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् ।
इत्येवं तु त्रिधा कुर्यात् दलं भवति निर्मलम्

3.8.142

{दल (?):: निर्मलीकरण (?)}
फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् ।
दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत्

3.8.143

आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् ।
चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत्

3.8.144

अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे ।
सुगममपि च तारं सूतशुल्बारयोगैः दलम् अतिमलहीनं वार्तिकानां हितार्थम्

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc