रसरत्नाकर · अध्याय 3.17
र्रा, 3, 17
वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद् द्रुतं द्रवभवं किल बंधयोग्यम् ।
नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम्
{अभ्रकद्रुति (1)}
शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् ।
घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः
त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै ।
स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत्
क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् ।
वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका
वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् ।
अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत्
आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः ।
एवं दिनत्रयं कुर्याद् द्रुतिर्भवति निर्मला
{अभ्रकद्रुति (2)}
अम्लवर्गेण पत्राणि क्षिपेद् घर्मे दिनत्रयम् ।
तथान्यान्यभ्रपत्राणि क्षालयेत् क्षीरकंदकैः
क्षारैर्यावद् भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् ।
लिप्त्वा लिप्त्वा क्षिपेद् घर्मे कांस्यपात्रे विशोषयेत्
सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत्
{अभ्रकद्रुति (3)}
काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् ।
एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि ।
अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला
{अभ्रकद्रुति (4)}
धान्याभ्रकं सगोमांसम् अभ्रपादं च सैंधवम् ।
स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत् त्र्यहम्
तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् ।
करीषाग्नौ त्र्यहं पच्याद् द्रुतिर्भवति निर्मला
{अभ्रकद्रुति (5)}
अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् ।
तद्गोलं निक्षिपेत् कंदे सूरणोत्थे निरुध्य च
तत्कंदं निखनेद् गोष्ठभूमौ मासात्समुद्धरेत् ।
कंदोदराद् द्रुतिर्ग्राह्या सूततुल्या तु निर्मला
{अभ्रकद्रुति (6)}
धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् ।
स्थापयेन्मृण्मये पात्रे त्र्यहाद् घर्मे भवत्यलम्
{अभ्रकद्रुति (7)}
सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला ।
मर्दयेद्भावयेद् घर्मे ततो दार्वी सुवर्चलम्
मरिचम् अभ्रपादांशं मूर्वापत्ररसैर्दिनम् ।
मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि
शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत्
{अभ्रकद्रुति (8)}
धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् ।
स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत्
{अभ्रकद्रुति (9)}
वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् ।
तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे
रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः ।
इत्येवं रसरूपं च जायते नैव संशयः
{अभ्रकद्रुति (10)}
उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् ।
स्थाल्यां वा पाचयेदेतान् भवन्ति नवनीतवत्
ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च ।
यामत्रयं धमेद् गाढम् अधोभाण्डे द्रुतिः पतेत्
{अभ्रकद्रुति (11)}
काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् ।
वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम्
मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः ।
अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला
{अभ्रकद्रुति (12)}
कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् ।
मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत्
नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा ।
पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात्
{अभ्रकद्रुति (13)}
धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु ।
स्नुहीक्षीरेण सप्ताहं भावितं धमनाद् भवेत्
{अभ्रकद्रुति (14)}
रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् ।
धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत्
वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् ।
भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत्
{अभ्रकद्रुति (15)}
अथवा छागमूत्रेण भावयेत् कपितिंदुजम् ।
फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत्
द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला
{अभ्रकसत्त्वद्रुति (2)}
नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् ।
तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् ।
हठाद् ध्माते द्रवत्येव तिष्ठते रसराजवत्
{अभ्रकसत्त्वद्रुति (3)}
भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् ।
दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः
तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् ।
यावत् तद् द्रवतां याति तावद्देयं पुनः पुनः ।
लोहं च द्रवते तेन हठाद् ध्माते न संशयः
{अभ्रकसत्त्वद्रुति (4)}
पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः ।
शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः
तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् ।
तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः
{अभ्रकसत्त्वद्रुति (5)}
क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् ।
तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च
{अभ्रकसत्त्वद्रुति (6)}
सर्वं धान्याम्लसंधानैर् भाव्यमभ्रकसत्वकम् ।
निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत्
{सुवर्णद्रुति (1)}
इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः ।
भावितं चैकविंशाहाद् द्रुते हेम्नि प्रवापयेत्
किंचित्किंचित्समं यावत् तावत्तिष्ठति सूतवत्
{सुवर्णरौप्यद्रुति (2)}
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णं वापमात्रेण द्रुतिः स्यात् स्वर्णतारयोः
{तीक्ष्णलोहद्रुति (1)}
सुरदालीभवं भस्म नरमूत्रेण भावितम् ।
त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत्
{तीक्ष्णलोहद्रुति (2)}
मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् ।
सारं द्रुतिर्भवेत्सत्यम् आवर्त्यादौ प्रदापयेत्
{सर्वधातुद्रुति (1)}
गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत्
{सर्वधातुद्रुति (2)}
देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।
तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत्
{सुवर्णद्रुति (3)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् ।
उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम्
अष्टाहाद् ग्राहयेत् तस्मात्तैलं पातालयंत्रके ।
तत्तैलं द्राविते स्वर्णे क्षिपेद् द्रुतिमवाप्नुयात्
{सुवर्णद्रुति (4)}
इंद्रगोपो ऽश्वलाला च शशमण्डूकयोर्वसा ।
अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत्
जायते रसरूपं तच्चिरकालं च तिष्ठति
{सुवर्णद्रुति (5)}
इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् ।
चूर्णितं भावयेद् द्रावैर्देवदाल्युद्भवैर्दिनम्
अनेन द्राविते हेम्नि वापो देयः पुनः पुनः ।
तिष्ठते रसरूपं तच्चिरकालं शिवोदितम्
{तीक्ष्णलोहद्रुति (3)}
तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः ।
लोलितं भावयेद् घर्मे क्षीरकन्दद्रवैः पुनः
सप्ताहं भावयेत्सम्यक् स्रावसंपुटके तथा ।
धामितं द्रवमायाति चिरं तिष्ठति सूतवत्
{कान्तलोहद्रुति}
शृगालमेषकूर्माहिशल्यानि च शिलाजतु ।
एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके ।
वापयेद् द्रवतां याति यथा सूतं सुनिश्चितम्
{सर्वलोहद्रुति (3)}
लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः ।
सप्ताहं भावयेद् घर्मे ह्यम्लवर्गेण मर्दयेत् ।
द्रवते धमनेनैव लिपियोग्यं न संशयः
{सर्वलोहद्रुति (4)}
गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः ।
द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम्
{सर्वलोहद्रुति (5)}
पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् ।
रुद्ध्वा भांडे क्षिपेद् भूमौ त्रिसप्ताहात् समुद्धरेत्
तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् ।
तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा
{माक्षिकसत्त्वद्रुति (2)}
एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् ।
मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत्
{सर्वरत्नानां सर्वलोहानां द्रुतिः}
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम्
ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च ।
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत्
वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् ।
दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम्
वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् ।
पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम्
वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः ।
एतैरेवौषधैर् लोहजातं द्रवति वापनात्
{वज्रद्रुति (1)}
वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् ।
जलभांडगतं स्वेद्यं सप्ताहाद् द्रवतां व्रजेत्
{वज्रद्रुति (2)}
सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् ।
सप्ताहाद् उद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत्
{वैक्रान्तद्रुति (1)}
श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम्
{वैक्रान्तद्रुति (2)}
केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका ।
इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत्
सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् ।
लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः
कुरुते योगराजोऽयं रत्नानां द्रावणं परम्
{सर्वद्रुतीनां स्थापनाधारः}
कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत्
इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर् मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् ।
तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत्
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0